________________ 636 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली तथा परैरप्ययं गृहीतो मार्गः / कर्मणा सत्त्वसंशुद्धिर्ज्ञानेनात्मविनिश्चयः / भवेद्विमुक्तिरभ्यासात् तयोरेव समुच्चयात् // इति / [240] किं पुनरात्मनः स्वरूपं येनावस्थितिर्मुक्तिरुच्यते ? आनन्दात्मतेति केचित् / तदयुक्तम् / विकल्पासहत्वात् / स किमानन्दो मुक्तावनुभूयते वा? न वा? यदि नानुभूयते ? स्थितोप्यस्थितान्न विशिष्यते, अनुपभोग्यत्वात् / अनुभूयते चेत् ? अनुभवस्य कारणं वाच्यम् / न च कायकरणादिविगमे तदुत्पत्तिकारणं पश्यामः / अन्तःकरणसंयोगः कारणमिति चेत् ? न, धर्माधर्मोपगृहीतस्य हि मनसः 'सहायत्वात्, . तपखिलशुभाशुभबोजना'शोपरीभूतं नात्मानुकूल्येन वर्त्तते / योगजधर्मानुग्रहादात्मानमनुकूलयति चेत् ? योगजोऽपि धर्मः कृतकत्वादवश्यं विनाशीति तत्प्रक्षये मनसः कोऽनुग्रहीता? अथ मतम्-अचेतनस्यात्मनो मुक्तस्यापि पाषाणादविशेषः, सोऽपि हि न सुखायते न च दुःखायते, मुक्तोऽपि यदि तथैव, कोऽनयोविशेष.? तस्मादस्त्यात्मनः स्वाभाविको चितिः, सा यदेन्द्रियर्बहिराकृष्यते, तदा बहिर्मुखीभवति / यदा विन्द्रियाण्युपरतानि भवन्ति, तदा स्वात्मन्येवानन्दस्वभावे निमज्जति / अयं हि चितेरात्मा यदि यं कञ्चिदवभासयति, यदि पुनरियं मुक्तावस्थायामदास्ते, तहि 'स्थितापि न स्थितैव / वरमात्मा जड एव कल्पित इति चेत् ? अत्रोच्यते-किं चितेरानन्दात्मता स्वाभाविको ? कारणान्तरजन्या वा ? न तावदवभासकारणं मुक्तावस्ति, कायकरणादीनां तत्कारणानां विलयादित्युक्तम् / स्वाभाविकी चेत् ? संसारावस्थायामप्यानन्दोऽनुभूयेत, चितिचैत्ययोरुभयोरपि सम्भवात् / अविद्याप्रतिबन्धादननुभव इति चेत् ? न, नित्यायाश्चितेरानन्दानुग्रहस्वभावायाः स्वरूपस्याप्रच्यतेः कः प्रतिबन्धार्थः ? प्रच्युतौ वा स्वरूपस्य का नित्यता ? तस्मानित्य आनन्दो नित्यया चित्या चेत्यमानो द्वयोरप्यवस्थयोरविशेषेण चेत्यते / न चैवमस्ति, संसारावस्थायामुत्पन्नापर्वागणो विषयेन्द्रियाधीनज्ञानस्य सुखस्यानुभवात् / अतो नास्त्यात्मनो १कारणतां-कं 1, कं.२;जे. 2 / 2 सहायता-जे. 1, जे. 3 / 3 नाशोपगतं-कं. 1, कं. 2 / 4 न दुःखायते-कं. 1, कं.२; जे. 2, जे. 3 / 5 स्थितोऽप्यस्थित एव-कं. 1, कं. 2; स्थिताप्यनवस्थितैव-जे. 3 / 6 कल्प्यतामिति-कं. 1, 6.2 / 7 नुभव-कं. 1, कं. 2 /