________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 635 न्यायकन्दली मोक्षस्य परिक्षीणप्रायकर्मणः तानि 'नश्यन्त्येव, बहिः संवित्तिविरहात् / परिणतसमाधिसामर्थ्यविशदीकृतमुपचितवैराग्याहितपरिपाकपर्यन्तमापादितविषयाद्वैतमुन्मूलितनिखिलविपर्ययवासनमेकाग्रीकृतान्तःकरणकारणमात्मज्ञानमेव केवलं तदानीं 'सजायते न बहिःसंवेदनम्, बाह्येन्द्रियव्यापारोपरमात् / तत्र कः संभवः कर्मणाम् ? तथा च श्रुतिः 'न शृणोतीत्याहुरेकीभवति न पश्यतीत्याहुरेकीभवतीत्यादि / तदा चाकरणनिमित्तः प्रत्यवायोऽपि नास्ति, सन्ध्येयमुपस्थितेत्यादिकमजानतो ब्राह्मणोस्मीति प्रतीतिरहितस्य कर्माधिकारपरिभ्रंशात् / यथोक्तम् . ब्राह्मणत्वानहंमानी कथं कर्माणि संसृजेदिति / _____ न चास्योपरतसमस्तव्यापारस्य काष्ठवदवस्थितस्यापि प्राणिहिंसापि संभवति / यत् पुनरस्य दृष्टद्रष्टव्यस्य क्षीणक्षेतव्यस्य वशीकृतमनसो विषयावबोधस्मरणसंकल्पसुखदुःखादिरहित्तस्य ब्रह्मलग्नसमाधेरपि शरीरं कियन्तं चित् (कालमनुवर्तते) तच्छरीरस्थितिमात्रहेतोरायुविपाकस्य कर्मग्रन्थेरनुच्छेदात् / यदा तु यावन्तं कालमायुविपाकेन कर्मणा शरीरं धारयितव्यं तावत्कालप्राप्तिरभूत्, तदा स्वकार्यकरणात् कर्मसमुच्छेदे तत्कार्यस्य शरीरस्य निवृत्तिः। तन्निवृत्तौ तत्कार्यस्य तत्त्वज्ञानस्यापि विनाशादात्मा कैवल्यमापद्यते / तत्रात्मतत्त्वज्ञानस्य विहितानां च कर्मणां बन्धहेतुकर्म'प्रतिबन्धे व्यापारादस्ति सम्भयकारिता / शरीरादिविविक्तमात्मानं जानतश्च तदुपकारापकारावात्मन्यप्रतिसन्दधानस्याहङ्कारममकारयोरुपरमे सत्युपकारिण्यपकारिणि च रागद्वेषयोरभावादुदासीनस्याप्रवृत्तावनागतयोः कुशलेतरकर्मणोरसञ्चयात्, सञ्चितयोश्चोपभोगेन कर्मभिश्च परिक्षयाद्विहिताकरणनिमित्तस्य प्रत्यवायस्य च विहितानुष्ठानेनैव 'प्रतिबन्धात् / क्षीणे कर्मण्यहिकस्य देहस्य निवृत्तौ कारणान्तराभावादामुष्मिकस्य देहस्य 'पुनरुत्पत्त्यभावे सत्यात्मनः स्वरूपेणावस्थानम / यथोक्तम् नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् / ज्ञानं च विमलीकुर्वन्नभ्यासेन तु पाचयेत् // अभ्यासात् पक्वविज्ञानः कैवल्यं लभते नरः / इति / 1 भ्रश्यन्ते-जे. 1, जे. 2. जे. 3 / 2 आत्मतत्वज्ञान-कं. १,कं. 2 / 3 सन्तायते-जे. 2, जे.३। 4 दु:खबहिष्कृतस्य-कं. 1, कं. 2 / 5 कारणात-जे.१। 6 प्रतिबन्ध-कं. 1, कं.२। 7 प्रतिरोधात-जे. 2 / 8 पुनरायत्यभावे-जे. 2 /