________________ न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली मुपभुजानः कुलालव्यापारविगमे चक्रभ्रान्तिवत् संस्कारवशादनवर्तमानस्य देहपातमुदीक्षमाणः / तथा च श्रुतिः जीवन्नेव हि विद्वान् संहर्षायासाभ्यां 'विप्रमुच्यते, इति / तथा चाहुः कापिला : सम्यग्ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ / तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धतशरीरः // इति / धर्मादीनामकारणप्राप्ताविति तत्त्वज्ञानेनोच्छिन्नेषु सवासनक्लेशेषु धर्मादीनां सहकारिकारणप्राप्त्यभावे सतीत्यर्थः। अलब्धवृत्तीनि कर्माणि तत्त्वज्ञानाद्विलीयन्त इति चेत् ? न, तेषामपि कर्मत्वादारब्धफलकर्मवज्ज्ञानेन विनाशाभावात् / योऽपि 'क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे 'परावरे' इत्युपदेशः, तस्याप्ययमर्थः-जाने सति अनागतानि कर्माणि न क्रियन्त इति / न पुनरयमस्यार्थः उत्पन्नानि कर्माणि ज्ञानेन विनाश्यन्त इति / तथा चागमान्तरम् 'नामुक्त क्षीयते कर्म कल्पकोटिशतैरपि' अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् इत्यादि / ज्ञानं यदि न क्षिणोति कर्माणि ? अनेकजन्मसहस्त्रसञ्चितानां कर्मणां कुतः परिक्षयः ? भोगात् कर्मभिश्च / तदर्थ चोदितैरनन्तानां कथमेकस्मिन् जन्मनि परिक्षय इति चेत् ? न, कालानियमात् / यथैव तावत् प्रतिजन्म कर्माणि चीयन्ते, तथैव भोगात् क्षीयन्ते च / यानि त्वपरिक्षीणानि तान्यात्मज्ञेनापूर्वम'सञ्चिन्वता च क्रमेणोपभोगात् कर्मभिश्च 'नाश्यन्ते / यथोक्तम् कुर्वन्नात्मस्वरूपज्ञो भोगात् कर्मपरिक्षयम् / . युगकोटिसहस्रेण कश्चिदेको विमुच्यते // इति / तदेवं विहितमकुर्वतः प्रत्यवायोपपत्तेस्तस्य च बन्धहेतुत्वादन्यतो विरामाभावात्, प्रत्यवायनिरोधार्थ मुक्तिमिच्छता योगाभ्यासाविरोधेन भिक्षाभोजनादिवद्यथाकालं विहितान्यनुष्ठेयानि, यावदस्यात्मतत्त्वं न स्फुटीभवति / स्फुटीकृतात्मतत्त्वस्यापि जीवन्मुक्तस्य तावत्कर्माणि भवन्ति, यावद्देहयात्रानुवर्तते / आत्मैकप्रतिष्ठस्य त्वभ्यर्ण 1 विमुच्यते-जे. 1 / 2 यथाहुः-जे. 2 / 3 'परविरे' अवश्यमेव कर्तव्यं कृतं कर्म शुभाशुभम्-इत्यधिकं जे. 3 पुस्तके / 4 शतैरपीत्यादि-कं. 1, कं. 2; शतरपीति-जे. 3 / 5 संक्षयः-जे. 2 / 6 मपूर्व सञ्चिन्वता-कं. 1, कं. 2 / 7 विलोप्यन्ते-जे. 1, जे. 2, जे. 3 / 8 प्रत्यवायोत्पत्ते-कं. 1, कं. 2 / 9 यावद्यात्रा-कं. 1, कं. 2 /