________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् न्यायकन्दली यानि काम्यानि कर्माणि प्रतिषिद्धानि यान्यपि / . तानि बन्धन्त्यकुर्वन्तं नित्यनैमित्तिकान्यपि // इति / . विहिताकरणमभावः, न' न चाभावस्य भावहेतुत्वमस्ति / अतो नास्मात् प्रत्यवायोत्पत्तिरिति चेत् ? न, विहिताकरणेऽन्यकरणात् प्रत्यवायस्य सम्भवात् / अभावस्य हि स्वातन्त्र्येण हेतुत्वं नेष्यते, न तु भावोपसर्जनतया / न च शरीरी सन्ध्यादिकाले कायेन वाचा मनसा वा किञ्चिन्न करोति, शरीरधारणादीनामपि करणात् / यथोक्तम् कर्मणां प्रागभावो यो विहिताकरणादिषु / न चानर्थकरत्वेन वस्तुत्वान्नापनीयते // स्वकाले यदकुर्वस्तत्करोत्यन्यदचेतनः / प्रत्यवायोऽस्य तेनैव नाभावेन स जन्यते // इति / . अभावेन केवलेन नासौ जन्यत इत्यर्थः / प्रतिषिद्धाचरणात् प्रत्यवायः शरीरधारणादिकं च न प्रतिषिद्धम् / तत्कुर्वन्नपि यदि 'सन्ध्यायां योगमभ्यस्यति को दोष इति चेत् ? 'तन्न, तत्काले विहितस्यावश्यकर्तव्यताविधेरर्थात् केवलस्य शरीरधारणादेः करणं प्रतिषिद्धमिति / तदाचरतो भवत्येव प्रतिषिद्धाचरणनिमित्तः प्रत्यवायः / अथोच्यते / दीर्घकालादरनरन्तर्यसेवितभावनाहितविशदभावमात्मज्ञानमेव रागद्वेषौ मोहं च समलकाषं कषद्विहिताकरणनिमित्तं प्रत्यवायमपि 'कषतीति तदयुक्तम् / यत्र ह्यभ्यासः प्रसीदति, तत्र तत्त्वग्रहो जातः संशयविपर्ययौ व्युवस्यति, न त्वस्य वस्त्वन्तरनिर्वहणे सामर्थ्य दृष्टपूर्वम् / यदि पुनरात्मज्ञानं कर्माणि निरुणद्धि उपारूढफलभोगमपि कर्म निरन्ध्यात्, ततः सुदूरं गता जीवन्मुक्तिः ? तत्त्वदर्शनानन्तरमेव विलीनाखिलकर्मणो देहपातात् / अस्ति चायं परमार्थदृष्टिनिरुद्धाखिलाविद्योऽपि चित्रलिखितमिवाभासमात्रेण सर्वं जगत् पश्यन्नेकत्राप्यनारूढाभिनिवेशः प्रारब्धफलं कर्मविशेष १न चाभावो भावस्य हेतुरपि-कं. 1. कं. 2 / 2 सन्ध्यया-कं.१, कं. 2 3 चेन्न-कं. १,कं.२; चेत-जे.१। 4 तत्काले हि - जे. 2 / 5 सेविनाहित - जे. 1, जे. 3 / 6 कषतीति चेत् - कं. 1, कं. 2, कषति - जे. 2 / '7 कर्मापि-जे. 3 / 80