________________ 644 म्यायकम्बलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [244] 'सर्व हि क्षणिकं कर्म 'गमनमात्रमुत्पनं स्वाश्रयस्योर्ध्वमस्तिर्यग्वा'परमाणुविवरमात्रः प्रदेशः संयोगविभागान् करोति, 'सर्वत्र च गमनप्रत्ययोऽविशिष्टस्तस्माद्गमनमेव सर्वमिति / न, वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात् / इहोत्क्षेपणं परत्रापक्षेपणमित्येवमादि सर्वत्र वर्गशः प्रत्ययान वृत्तिव्यावृत्ती 'दृष्टे, तद्धतुः सामान्य विशेषभेदोऽवगम्यते / तेषामुदाद्युपसर्ग विशेषात् प्रतिनियतदिग्विशिष्टकार्यारम्भत्वादुपलक्षणभेदोऽपि सिद्धः / न्यायकन्दली [244] सर्वेषां गमनादविशेषमेव कथयति-सर्व होत्यादिना / उत्क्षेपणादिषध्वं गच्छति अधो गच्छतीति प्रत्ययदर्शनात् सर्वमेवेदमुत्क्षेपणादिकं गमनमेव। . समाधते-नेति / यत् त्वयोक्तं तन्न, उत्क्षेपणादिषु वर्गशः प्रतिवर्ग प्रत्ययानुवृत्तिव्यावृत्त्योदर्शनात् / गोवर्ग अश्वादिवर्गव्यावृत्त्वा प्रत्ययानुगमदर्शनाद् गोत्वं कल्प्यते यथा, तथोत्क्षेपणादिषु प्रतिवर्गमितरव्यावृत्त्या प्रत्ययानुगमदर्शनादुत्क्षे पणत्वादिसामान्यकल्पनेत्यभिप्रायः / अस्य विवरणं सुगमम् / . . . "तेषामिति / उपलक्षणभेदोऽपीत्यपिशब्दः कार्यारम्भादित्यस्मात् परो द्रष्टव्यः / उपलक्ष्यतेऽन्यविलक्षणतया प्रतिपाद्यते व्यक्तिरनयेत्यपलक्षणं जातिः / तदयमत्रार्थःन केवलमनुवृत्तिव्यावृत्तिप्रत्ययदर्शनादुत्क्षेपणापक्षेपणादीनां जातिभेदः सिद्धः, उदाधुपसर्गभेदात् "प्रतिनियतदिग्विशिष्टकार्यारम्भादपि सिद्धः / अपरे तु तेषामुत्क्षेपणादोनामुदाद्युपसर्गविशेषादिविशिष्टकार्यारम्भादुपलक्षणभेदोऽपि प्रतिपसिभेदोऽपि सिद्ध इति / अभेदे हि यथोत्क्षेपणमूर्ध्वसंयोगविभागहेतुरेवमपक्षेपणादिकमपि स्यात् / [कु०] [244] अस्यैव यथार्थस्य व्याख्यानपरं भाष्यं पठति यदन्यदिति (कं. 294) तव्याचष्टे एतेविति (क. 294) अत्र स प्रत्ययं शरीरावयवे तत्सम्बन्धवति पञ्चविधं चासत्प्रत्ययं त्वनियताधिकरणं गमनमेवेति / क:(?) प्रत्ययदर्शनादिति (कं. 294) गतिप्रत्ययानुवृत्तिदर्शनादित्यर्थः / __ प्रत्ययानुवृत्तिव्यावृत्त्येति (कं. 294) उत्क्षिपति वि(इ)त्यादिषु अनुवृत्तिव्यावृत्तिप्रत्यक्षवद् दृश्यत इति भावः / 1 सर्व क्षणिक-दे। 2 चलन-दे। 3 प्यणुमात्र:-कं. 1, कं. 2 / 4 सर्वत्र-कं. 1, कं. 2 / 5 वृत्तिावृत्तिश्च-व्यो. .(658) पा. 5 पु। 6 दृष्टा-व्यो. (658) / 7 विशेषो-व्यो. (658) / 8 भेदात्-व्यो. (658) / 9 मितरवर्ग-कं. 1, कं. 2 / 10 क्षेपणादि-जे 1 / 11 अत्रापि सर्वेष्वपि ताडपत्रीयपुस्तकेष सम्पूर्णमूलभाष्य पाठो दत्तः-सं। 12 तदयमर्थः-जे. 1, जे. 2, जे. 3 / 13 भेदाद् विशिष्टकार्यारम्भात-जे. 1, भेदाद् दिग्विशिष्टकार्यारम्भात्-जे. 2, जे. 3 /