________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [238-239-240) ज्ञानपूर्वकात्तु कृतादसंकल्पितफलाद्विशुद्धे कुले जातस्य दुःख विगमोपायजिज्ञासोराचार्यमुपसङ्गम्योत्पन्नषट्पदार्थतत्त्वज्ञानस्याज्ञाननिवृत्तौ विरक्तस्य 'रागद्वेषाभावात् तज्जयोधर्माधर्मयोरनुत्पत्तौ 'पूर्वसञ्चितयोश्चोपभोगाग्निरोधे सन्तोषसुखं न्यायकन्दली [238] एवं धर्मात् संसारं प्रतिपाद्यापवर्ग प्रतिपादयति ज्ञानपूर्वकात् स्विति / “स्वरूपतश्चाहमदासीनो बाह्याध्यात्मिकाश्च विषयाः सर्व एवैते दुःखसाधनम्" इति यस्य ज्ञानमभूत्, स दृष्टानविकविषयसुखवितृष्णः "एवमहं भूयासमिति मे भूयासुः" इति फलाकाडक्षया विना 'निवृत्तिसाधनतया विहितमपरं चावश्यकरणीयं कर्म करोति / तस्मात् कर्मणो ज्ञानपूर्वकात् कृतादस्य 'विशुद्ध कुले जन्म भवति / अकुलीनस्य श्रद्धा न भवति / न चाश्रद्दधानस्य जिज्ञासा सम्पद्यते / न चाजिज्ञासोस्तत्त्वज्ञानम् / तद्विकलस्य च नास्ति मोक्षप्राप्तिः / अतो मोक्षानुगुणमसंकल्पितफलं कर्म विशुद्ध कुले जन्म ग्राहयति, विशुद्धे कुले जातस्य प्रत्यहं 'दुःखैरनुहन्यमानस्य दुःखविगमोपाये जिज्ञासा सम्पद्यते "कुतोनु खल्वयं मम दुःखोपरमः स्यात्" इति / स चैवमाविर्भूतजिज्ञास आचार्यमुपगच्छति, तस्य चाचार्योपदेशात् षण्णां पदार्थानां श्रौतं तत्त्वज्ञानं जायते / तदनु श्रवणमनननिदिध्यासनादिक्रमेण प्रत्यक्षं भवति / उत्पन्नतत्त्वज्ञानस्या ज्ञानं सवासनं निवर्तते। विपर्ययज्ञानं तन्निवृत्तौ विरक्तस्य 'विच्छिन्नरागद्वेषसंस्कारस्य रागद्वेषयोरभावात् तज्ज"योर्धमाधर्मयोरनुत्पादः / क्लेशवासनोपनिबद्धा हि प्रवृत्तयस्तु"षावनद्धा इव तण्डुलाः प्ररोहन्ति / क्षीणेषु क्लेशेषु निस्तुषा इव तण्डुलाः कार्य न प्रतिसन्दधते / यथाह भगवान् पतञ्जलि:-"सति मूले तद्विपाको जात्यायु गाः" इति / [टि०] "अन्तःकरणं कारणं यस्येति बहुव्रीहिः / "उत्पन्नो(त्पन्ना) पवर्गिण इति:- "उत्पन्ननष्टस्येत्यर्थः / / s"धर्मः // 1 वियोगोपाय - व्यो. (644) / 2 रागद्वेषाद्य - कं. 1, कं. 2 / 3 सञ्चितयो- व्यो. (644) दे. / 4 स्वरूपत: स्वभावहम-जे. 1, जे. 2, स्वरूपर्माऽहम-जे. 3 / 5 निवृत्त - कं. 1, कं. 2 / 6 हि शुद्ध-जे. 1 / 7 दुःखैरभि-कं. 1, कं. 2 / 8 स्याज्ञाननिवृत्तौ सवासनविपर्ययज्ञाननिवृत्तौ-कं. 1, कं. 2 / 9 रागसंस्कारस्य -जे. 2, जे. 3 / 10 तज्जयो रागद्वेषजन्ययो-जे.२, जे. 3 / 11 तुषाबद्धा-जे. 3 / 12 अन्तःकारणं यस्येति-अ, ब, क। 13 उत्पन्नापगिण इति प्रतीकं पुस्तके नास्ति / 14 उत्पन्नानष्टस्य - ड। 15 अत्र धर्माधर्मनिरूपणं समाप्तम्, अतः धर्माधर्मी इति पदेन भाव्यम् / ..... .. .