________________ न्यायकन्दलीसंवलितप्रशस्तपावभाज्यम् प्रशस्तपादभाष्यम् .... 'अविदुषो रागद्वेषवतः प्रवर्तकाद्धर्मात् 'प्रकृष्टात् स्वल्पाधर्मसहितात् ब्रह्मेन्द्रप्रजापतिपित'मनष्यलोकेष्वाशयानुरूपरिष्टशरीरेन्द्रियविषयसुखादिभिर्योगो भवति / तथा प्रकृष्टादधर्मात् स्वल्पधर्मसहितात् प्रेततिर्यग्योनिस्थानेष्वनिष्टशरीरेन्द्रियविषयदुःखादिभिर्योगो 'भवति / एवं प्रवृत्तिलक्षणाद्धर्मादधर्मसहिताद्देवमनुष्यतिर्यडानारकेषु पुनः पुनः संसार'प्रबन्धो भवति / न्यायकन्दली एवमधर्मस्य साधनमभिधाय संप्रति साध्यं कथयति-अविदुष इत्यादिना / यः कर्ता भोक्ता'स्मीत्यात्मानमभिमन्यते, परमार्थतो दुःखसाधनं च बाह्याध्यात्मिकविषयं सुखसाधनमित्यभिमन्यते सोऽविद्वान् / स च स्वोपभोगतृष्णा परिप्लुतः सुखसाधन त्वेनारोपिते विषये रज्यते, तदुपरोधिनि च द्विष्टो भवति / तस्य प्रवर्तकाद्धर्माद्देवो वा स्यां गन्धर्यो वा स्यामिति पुनर्भवप्रार्थनया कृताद् धर्मात् प्रकृष्टात् फलातिशयहेतोराशयानुरूपः 'कर्मानुरूपरिष्टशरीरादिभिः सम्बन्धो भवति, ब्रह्मेन्द्रादिस्थानेऽपि मात्रया दुःखसम्भेदोऽस्ति / न चाधर्मादन्यद् दुःखसंवेदोऽस्ति / न चाधर्मादन्यदुःखस्य करणमतः स्वल्पाधर्मसहितादित्युक्तम् / यस्य प्रकृष्टो धर्मस्तस्य प्रकृष्टानि शरीरादीनि भवन्ति, यस्य प्रकृष्टतरो धर्मः तस्य प्रकृष्टतराणि भवन्ति, यस्य प्रकृष्टतमो धर्मस्तस्य प्रकृष्टतमानीति प्रतिपादयितुमाशयानुरूपैरित्युक्तम् / इष्टशब्दः प्रत्येकं शरीरादिषु सम्बद्धयते, द्वन्द्वानन्तरं प्रयोगात् / तथा प्रकृष्टावधर्मात् प्रेतयोनीनां तिर्यग्योनीनां च स्थानेष्वनिष्टः शरीरादिभिर्योगो भवति / प्रेतादिस्थानेऽपि मनाक् सुखमस्ति, तच्च धर्मस्य कार्यम्, अतः स्वल्पधर्मसहितादित्युक्तम् / उपसंहरति / एवमिति / [टिo] हि इति संहर्षः सुखम् , आयासो दुःखं "ताभ्यां मुच्यते / वस्तुवृत्त्या तत्सम्भवेऽपि तद्गतरागाद्यभावात् / अन्तःकरणेति 1 अविदुषो प्रवतकाद्धर्मात्-व्यो (644) / 2 प्रकृत्या-दे। 3 पितृगाषिमनुष्य-व्यो (64) / 4 इत्येवं-व्यो. (644) दे। 5 बन्धो-कं. 1, कं. 2, 6 स्ती-कं. 1, कं. 2 / ७विप्लत:-जे. 1 / 8 त्वारोपिते-कं. 1, कं. 2., त्वेन बाह्ये विषये-जे. 3 / 9 नुरूपैरिष्टशरीरादिभि:-जे. 1, धर्मानुरूपैरिष्टशरीरादिभिः-जे. 2, धर्मानरूपैविशिष्टशरीरादिभि:- जे. 3 / 1. सम्भवन्ति-जे. 1, जे. 3 / 11 ताभ्यामुच्यते-अ, ब, क /