________________ टिप्पणपञ्जिकाकुसुमौदगमाविटीसावापतम् प्रशस्तपादभाष्यम् [237] अधर्मोऽप्यात्मगुणः / कर्तुरहितप्रत्यवायहेतुरतीनियोऽन्त्यदुःखसविज्ञामविरोधी। तस्य तु साधनानि शास्त्रे 'प्रतिषिद्धानि धर्मसाधनविपरीतानि हिंसानतस्तेयादीनि, विहिताकरणं, प्रमादश्चैतानि दुष्टाभिसन्धिं चापेक्ष्यात्ममनसोः संयोगादधर्मस्योत्पत्तिः। न्यायकन्दली [237] अधर्मोऽप्यात्मगुणः / 'न केवलं धर्मोऽधर्मोप्यात्मगुणः। 'कर्तुरहितप्रत्यवायहेतुः। कर्तुरहितं दुःखसाधनम्, प्रत्यवायो दुःखम्, तयोरधर्मो हेतुः / [अतीन्द्रियो न केनापीन्द्रियेण गृह्यत इत्यर्थः] अन्त्यदुःखसंविज्ञानविरोधी / अन्त्यस्य दुःखस्य सम्याग्विज्ञानेन विनाश्यते / तस्य साधनानि शास्त्रे प्रतिषिद्धानि धर्मसाधनविपरीतानि हिंसान्तस्तेयादीनि / हिंसा पराभिद्रोहः / अनृतं मिथ्यावचनम् / स्तेयमशास्त्रपूर्व परस्वग्रहणम् / एवमादीनि धर्मसाधनविपरीतानि शास्त्रे प्रतिषितानि यानि तान्यधर्मसाधनानि / 'विहिताकरणं प्रमादश्च / विहिताकरणमवश्यकर्तव्याकरणम् / अनारोऽबुद्धिपूर्वकोजलक्रमः, एतदपि द्वयमधर्मसाधनम् / यथैतेभ्यो धर्मस्योत्पतिस्तहबसिएतानि च दुष्टं चामिसन्धिमपेक्ष्यात्ममनसोः संयोगादधर्मोत्पत्तिरिति / चत्र कामनापूर्वकमधर्मसाधना 'नुष्ठानं तत्र दुष्टोऽभि सन्धिः कारणम् / अकामकृते तु प्रमानास्प हैतुत्वम् / [टि०] - [237 to 241] "सन्तोषसुखं शरीरादिपरिखेदं च इति :- अभमंमिश्रत्वादमः शरीरादिपरिखेदे कारणम् / संस्कारवशादनुवर्तमानस्य इति :- देहपक्षे "संस्क्रियते आभ्या"मात्मा इति संस्कारशब्देन धर्मा"धमा उच्यते / बोकोव 1 विप्रति-दे।, 2 एतानि च दुष्टं चाभिसन्धिमपेक्ष्य - कन्दल्याम् / 3 न केवल मोऽधर्मोप्दात्मगुणः' इति पाठो जे. 1 पुस्तके नास्ति। 4 कर्तुरिति-कं. 1, कं. 2 / 5 [ ] एतचिहान्तर्गतः पाठःक.१,कं.२, जे. 2 पुस्तके नास्ति। 6 नेति-कं. 1, कं. 2 / 7 विज्ञानं तेन-कं. 1, के.२। 8 विहितीकरण विहिसंस्थावस्य करणीस्याकर्तव्यता-कं. 1, कं. 2, जे.३। 9 चेति-कं. 1, कं. 2 / 10 सन्धिरधर्मकारणम् -कं.१, क.२। .11 सन्तोषः सुखं शरीरादिपरिखेदे कारणम् -अ, ब, क। 12 स्कियते-अ। 13 आत्मात्यैति-। 14 धर्मी-अ, ब, क /