________________ 128 न्यायकम्दतीसंवलितप्रशस्तपविभाष्यम् न्यायकन्दली अनादिवासना'वासितोऽसिप्रबलो निसर्गसिद्धः सर्वः सांव्यवहारिकः 'प्रत्यक्षेणैष प्रत्ययः / श्रौतमात्मतत्त्वज्ञानं क्षणिकमनुपलब्धसंवादं परोक्षं च / न च दृढतरः प्रत्यक्षावभासः परोक्षावभासेन शक्यते निषेद्धम् / नहि शतशोऽपि प्रमाणान्तरावगते गुडस्य माधुर्ये दुष्टेन्द्रियजः तिक्तप्रतिभासस्तत्कृतश्च दुःखावगमो निवर्तते, तस्मात् प्रत्यक्षजानार्थ समाधिरुपासितव्यः / प्रचिते समाधौ तत्सामर्थ्यात् कर्तृत्वभोक्तत्वरिपन्थिन्यात्मतत्त्वे स्फुटीभूते समाने विषये विद्याविद्ययोविरोधादहङ्कारममकारवासनोच्छेदे सन्नपि प्रपञ्चो नात्मानं स्पृशति / तथा च कापिलरुक्तम् तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्तौ। ... प्रकृति पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थः / / __तेन तत्त्वज्ञानेन सता निवृत्तप्रसवां निवृत्तोपभोगजननसामर्थ्याज् ज्ञानधर्मवैराग्यस्वर्याधर्माज्ञानावैराग्यानैश्वर्येभ्यः सप्तरूपेभ्यो विनिवृत्तां प्रकृति पुरुषः प्रेक्षकवदुदासीनः स्वस्थो रजस्तमोवृत्तिकलुषतया बुद्धया 'नसम्भिन्नः पश्यतीत्यर्थः / यद्यप्यनादिरियं मोहवासना आदिमांश्च तत्त्वसाक्षात्कारः, तथाप्यनेन सा निरुद्धयते, तत्त्वावग्रहो हि धियां परमं बलम् / 2 निसर्गबद्धः-कं. 1, कं. 2 / 3 प्रत्यक्षेणवेष - कं. 1, कं. 2 / 1 वासित इति -कं. 1, कं. 2 / 4 असम्भिन्नः - कं. 1, कं. 2 /