________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् 627 . न्यायकन्दली क्रियन्ते, तदैतानि साधनानि भावप्रसादं चाभिप्रायविशुद्धि चापेक्ष्यात्ममनसोः संयोगादर्मोत्पत्तिरिति / प्रत्यहं दुःखैरभिहन्यमानस्य तत्त्वतो 'विज्ञातेषु दुःखैकनिदानेष विषयेष विरक्तस्यात्यन्तिकं दुःखवियोगमिच्छतः "आत्मख्यातिरविप्लवा हानोपायः" 'तस्याश्च समाधिविशेषो निबन्धनम्' इति श्रुतवतः "संन्यस्य सर्वकाम्यकर्माणि समाधिमनतिष्ठासतः" / तत्प्रत्यनीक भूयिष्ठं ग्रामं परित्यज्य वनमाश्रितस्य यमनियमाभ्यां कृतात्मसंस्कारस्य समाध्यभ्यासान्निवतको धर्मो जायते / तस्मादस्य प्रकृष्टः समाधिस्ततोऽन्यः प्रकृष्टतरो धर्मः, 'तस्मादप्यन्यः प्रकृष्टतमः समाधिरित्यनेन क्रमेणान्त्ये जन्मनि स तादृशः समाधिविशेषः परिणमति यो द्वन्द्वेनाप्यभिभवितुं न शक्यते / दृष्टो हि किञ्चिदभिमतं विषयमादरेणानुचिन्तयतः तदेकाग्रीभूतचित्तस्य सन्निहितेषु प्रबलेष्वपि विषयेषु 'असंबोधः, यथेषुकार इषो लब्धलक्ष्यो'ऽभ्यासे गच्छन्तमपि राजानं न बुद्धयते / तथा च भगवान् पतञ्जलि:-"अभ्यासवैराग्याभ्यां तनिरोधः" इति / एवं परिणते समाधावात्मस्वरूपसाक्षात्कारिविज्ञानमुदेति / यथाहुः कापिलाः एवं तत्त्वाभ्यासान्नास्ती न मे नाहमित्यपरिशेषम् / __ अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् // इति / ___ अत आत्मज्ञानार्थं यतिना योगसाधनमनुष्ठीयते / ज्ञानं ज्ञेयाभिव्यक्तिमात्रफलम्, श्रौतात्मज्ञानेनाप्यात्मस्वरूपं प्राप्यते, किमस्य ध्यानाभ्यासात् प्रत्यक्षीकरणेनेति चेत् ? न, परोक्षस्य प्रत्यक्षज्ञानबाधने सामर्थ्याभावात् / स्वरूपतस्तावदात्मा न कर्ता न भोक्ता, किन्तूदासीन एव / तत्र देहेन्द्रिय सम्बन्धोपाधिकृतोऽहं ममेति कर्तृत्वभोक्तृत्वप्रत्ययो मिथ्याऽतस्मिस्तदिति भावात् / एतत्कृतश्चानुकूलेषु रागः प्रतिकूलेष द्वेषः, ताभ्यां प्रवृत्तिनिवृत्ती, ततो धर्माधर्म, ततश्च संसारः / यथोक्तं सौगतैः आत्मनि सति परसंज्ञा स्वपरविभागात् परिग्रहद्वेषौ / - अनयोः संप्रतिबद्धाः सर्वे भावाः प्रजायन्ते // 1 निर्जातेष-जे.२। 2 तिष्ठामः-कं. 1, कं.२। 3 तस्मादन्यः-जे.१। 4 सम्बधः-कं. 1, कं. 2 / 5 लक्ष्याभ्यासो-कं. 1, कं. 2 / 6 नास्मि न मे नाह-कं. 1, कं. 2, जे.१। 7 ज्ञानार्थिना-कं. 1, कं.२। '8 प्रत्यक्षगाधने - कं. 1, कं. 2 / 9 सम्बन्धाद्यपाधि-कं. 1, कं. 2 / /