________________ 626 न्यायकम्बलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [236] त्रयाणामन्यतमस्य श्रद्धावतः सर्वभूतेभ्यो नित्यमभयं दत्त्वा, संन्यस्य स्वानि कर्माणि, यमनियमेष्वप्रमत्तस्य षट्पदार्थप्रसंख्यानाद्योगप्रसाधनं प्रवजितस्येति / दृष्टं प्रयोजनमनुद्दिश्येतानि साधनानि भावप्रसादं चापेक्ष्यात्ममनसोः संयोगा- . धर्मोत्पत्तिरिति / न्यायकन्दली यः प्राजापत्यामिष्टि निरूप्य सर्वस्वं दक्षिणां दत्त्वात्मन्यग्नि समाधाय पुत्रे भायाँ निक्षिप्य प्रवजितः, न तस्य होमो 'नाप्यतिथिपरिग्रहः / यस्तु सह पत्न्या सहवाग्निना बनं प्रस्थितः, तस्य हुतशेषभोजनमतिथिशेष भोजनं च / [236] यतिधर्म 'कथयति-त्रयाणामिति / यत्या श्रमपरिग्रहेऽपि नियमो नास्ति, श्रद्धोपगमे सति ब्रह्मचार्येव यतिर्भवति, गृहस्थो वा भवति, वानप्रस्थो वेत्यनेनाभिप्रायेणोक्तं त्रयाणामन्यतमस्येति / श्रद्धावतः चित्तप्रसादवतः सर्वभूतेभ्यो नित्यमभयं दत्त्वा भूतानि मया न जातु हिसितव्यानीति अद्रोहसङ्कल्पं गृहीत्वा, स्वानि कर्माणि काम्यानि संन्यस्य परित्यज्य यमनियमेष्वप्रमत्तस्य / अहिंसासत्यादयो यमाः / यथाह भगवान् पतञ्जलि:अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमा इति / तपःशौचादयस्तु नियमाः / यथाह स एव 'भगवान्-शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमा इति / न्यायभाष्यकारस्तु प्रत्याश्रमं विशिष्टं धर्मसाधननियममाह / तेष्वप्रमत्तस्य ताननतिक्रमतः / षट्पदार्थप्रसंख्यानात् षण्णां पदार्थानां तत्त्वज्ञानाद्योगस्यात्मज्ञानोत्पादन समर्थस्य समाधिविशेषस्य 'प्रसाधनमुत्पादनं प्रव्रजितस्य धर्मसाधनम् / अर्थतानि धर्म साधयन्ति तथा कथयति-दृष्टं चेति / लाभपूजादिप्रयोजनमनुद्दिश्यानभिसन्धाय यदैतानि साधनानि [टि०] [236] एवं तत्त्वेति 'नास्मीत्यनेन क्रियायाः न मे इत्यनेन सम्बन्धस्य नाहमित्यनेन कर्तृत्वस्य निषेधः / तेन निवृत्तेति :- अर्थवशादित्यर्थः / १न तस्या-कं.१, कं.२। 2 भाजनं च धर्मसाधनम् -कं. 1, कं. 2 / 3 निरूपयति -कं. 1, कं. 2 / 4 यत्याश्रय -णे. 3 / 5 भगवान् पतञ्जलि: - जे. 3 / 6 सामर्थ्यस्य - जे. 3 / 7 साधनम् - जे. 2 / 8 मोऽस्मी-म। 9 वृतेति - म, ब, क /