________________ 624 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् प्रशस्तपादभाष्यम् [235) विद्याव्रतस्नातकस्य कृतदारस्य गृहस्थस्य शालीनयायावरवृत्त्य पाजितरर्थंभूतमनुष्यदेवपितृब्रह्माख्यानां पञ्चानां महायज्ञानां सायम्प्रातरनष्ठानम् / एकाग्निविधानेन पाकयज्ञसंस्थानां ['च नित्यानां शक्तौ विद्यमानायामग्न्याधेयादीनां च हविर्यज्ञसंस्थानामग्निष्टोमादीनां सोमयज्ञसंस्थानां च ] ऋत्वन्तरेषु ब्रह्मचर्यमपत्योत्पादनं च / ब्रह्मचारिणो गृहस्थस्य 'वा वनवासो वल्कलाजिनकेशश्मश्रुनखरोम'धारणम् / वन्यहुतातिथिशेषभोजनानि 'वनस्थस्य / - न्यायकन्दली वैश्यस्य क्रयविक्रयकृषिपशुपालनानि / मूल्यं दत्त्वा परस्माद् द्रव्यग्रहणं क्रयः, मूल्यमादाय परस्य स्वद्रव्यदानं विक्रयः, / कृषिः 'परिकमितायां भूमौ बीजस्य वपनं रोपणं, च पशुपालनं गोजाविकादिपरिरक्षणम् / एतानि वैश्यस्य धर्मसाधनानि, तस्यामीभिरेवोपायरजितानां धनानां 'धर्माङ्गत्वात् / शूद्रस्य पूर्वेषु वर्णेषु पारतन्त्र्यममन्त्रिकाश्च क्रिया धर्मसाधनम् / [235] आश्रमिणां तु धर्मसाधनमुच्यते / ब्रह्मचारिणो गुरुकुलनिवासिन इति / उपनीय यः शिष्यं साङ्ग सरहस्यं च वेदमध्यापयति स गुरुः, तस्य कुले गृहे वसनशीलस्य ब्रह्मचारिणः स्वशास्त्रविहितानि ब्रह्मचारिणमधिकृत्य शास्त्रेण विहितानि / [ 'गुरुशुश्रषाग्नीन्धनभेक्ष्याचरणानि, मधुमांसदिवास्वप्नाभ्यञ्जनाञ्जनवर्जनं च व्रतरूपधर्मसाधनम्।] गुरुशुश्रूषा गुरोः परिचर्या, गुरुशुश्रूषा च अग्निश्चेन्धनं च भक्ष्यं च तेषामाचरणानि / गुरुशुश्रूषाभक्ष्ययोः करणमेवाचरणम् / अग्नेराचरणम्, प्रत्यहं मग्नौ होमः इन्धनस्याचरणमग्न्यर्थ वनादिन्धनस्याहरणमिति विवेकः / गृहस्थस्य धर्मसाधनम् कथयति-विद्याव्रतस्नातकस्येति / यो वेदाध्ययनार्थ गहीतं व्रतमधीते वेदे विसजितवान स विद्यावतस्नातकः, तस्य कृतदारस्य कृतपत्नीपरि 1 पाजिते त-दे। 2 / ] एतश्चिह्नान्तर्गतः पाठः दे पुस्तके नास्ति। 3 वा ग्रामानिर्गतस्य-कं. 1, कं. 2 / 4 धारणं च-कं. 1, कं.२। 5 वानप्रस्थस्य-कं. 1. कं. 2 / 6 परिकर्षितायां-कं. 1, क. 2 / 7 कर्माङ्गत्वात् -जे. 2 / 8 [ ] एतचिह्नान्तर्गतः पाठः कं. १,कं. 2 पुस्तकयो स्ति। 9 अग्नहोमः-जे.२।