________________ 623 टिप्पणपञ्जिकाकुसुमोगमाविटीकात्रयोपेतम् प्रशस्तपादभाष्यम् क्षत्रियस्य सम्यक् प्रजापालनमसाधुनिग्रहो युद्धष्वनिवर्त्तनं स्वकीयाश्च संस्काराः / वैश्यस्य क्रयविक्रयकृषिपशुपालनानि स्वकीयाश्च संस्काराः / - शूद्रस्य 'पूर्ववर्णपारतन्त्र्यममन्त्रिकाश्च क्रियाः। आश्रमिणां तु ब्रह्मचारिणो गुरुकुल निवासिनः स्वशास्त्रविहितानि गुरुशभूषाम्नीन्धनभेक्ष्याचरणानि मधुमांसदिवास्वप्नाञ्जनाभ्यञ्जनादिवर्जनं च / न्यायकन्दली शुचिद्रव्यसेवनं शुचीनां तिलादिद्रव्याणां क्वचित्पर्वणि नियमेन सेवनं धर्मसाधनम् / विशिष्टदेवताभक्तिः त्रयीसमतायां देवतायां भक्तिरित्यर्थः / उपवास एकादश्यादौभोजननिवृत्तिसंकल्पः / अप्रमादो नित्यनैमित्तिकानां कर्मणामवश्यम्भावेन करणम् / एतानि सर्वेषामेव समानानि 'धर्मसाधनानि ब्राह्मणक्षत्रियविशां सामान्यानि धर्मसाधनानि इज्याध्ययनदानानि / इज्या यागहोमानुष्ठानम् / अध्ययनं वेदपाठः / दानं स्वद्रव्यस्य परस्वतापत्तिफलः संकल्पविशेषः / शूद्रस्यापि दानमस्त्येव, तेन यज्ञादिषु यद्दानं तदभिप्रायेणेदं त्रैवणिकानां विशिष्टं धर्मसाधनमुक्तम् / ब्राह्मणस्य विशिष्टान्यसाधारणानि धर्मसाधनानि प्रतिपादयति- प्रतिग्रहाध्यापनयाजनानि / प्रतिग्रहो विशिष्टाद् द्रव्यग्रहणम् / अध्यापनं तु प्रसिद्ध मेव / याजनमात्विज्यम् / एतानि ब्राह्मणस्य धर्मसाधनानि, तस्यामीभिरेवोपायैरजितानां द्रव्याणां 'धर्माधिकारात् - स्ववर्णविहिताश्चाष्टचत्वारिंशत्संस्काराः वैदिककर्मानुष्ठानयोग्यतापावनद्वारेण ब्राह्मणस्य धर्मसाधनम् / क्षत्रियस्य विशिष्टानि धर्मसाधनानि / सम्यक् प्रजापालनं न्यायवृत्तीनां प्रजानां परिरक्षणम् / असाधुनिग्रहः, दुष्टानां यथाशास्त्रं शासनम् / युद्धेष्वनिवर्तनं युद्धेषु विजयावधिः प्राणावधिर्वा आयुधव्यापारः / स्वकीयाश्च संस्काराः। [टि०] 'कठिनं तापसभाजनं चक्रम् / पर्वणी इति पर्वणी शब्द ईकारान्तः पौर्णमास्यमावास्यावाचकः / 1 शद्रस्य पारतन्त्र्यम-दे। 2 वासिनः-दे। 3 दश्यादि-कं. 1, कं 2, जे. 3 / 4 अवश्यकरणं-जे. 1 / 5 धर्मसाधनानि - इव्या-कं. 1, कं 2 / 6 परस्त्वापत्ति संकल्पविशेष:- क. 1, क. 2 / 7 कर्याधिकागतवे. 2 / 8 कविनं -अ, / 9 मास्यामावाचकः-अ, ब /