________________ 622 यायकवलीसंवलितप्रशस्तपादभाष्यम् . प्रशस्तपादभाष्यम् [234] तत्र सामान्यानि धर्म श्रद्धा, अहिंसा, भूतहितत्वम्, सत्यवचनम्, अस्तेयम्, ब्रह्मचर्यम्, अनुपधा, क्रोधवर्जनमभिषेचनम्, शुचिद्रव्यसेवनम्, विशिष्टदेवताभक्तिरुपवासोऽप्रमावश्च / ब्राह्मणक्षत्रियविशां सामान्यानि धर्मसाधनानि इज्याध्ययनदानानि ब्राह्मणस्य विशिष्टानि प्रतिग्रहाध्यापनयाजनानि स्ववर्णविहिताश्च संस्काराः / न्यायकन्दली क्षत्रियविशद्राः / आश्रमिणो ब्रह्मचारिगृहस्थवानप्रस्थयतयः / तेषां धर्मः प्रतिवर्ण प्रत्याश्रमं चाधिकृत्य विहितैः साधनजन्यत इत्यर्थः / [234] अतीन्द्रियस्य धर्मस्य साधनानि कुतः प्रत्येतव्यानि तत्राह- तस्य त्विति / विशिष्टेनानुष्ठानेनाचार्यमुखाच्छ यत एव न लिखित्वा गृह्यत इति श्रुतिर्वेदः, स्मृतिर्मन्वादिवाक्यं ताभ्यां विहितानि 'प्रतिपादितानि / सामान्य विशेषभावेनावस्थितानि द्रव्यगुणकर्माणि सामान्यनि धर्मसाधनानि / तत्र सर्वेषां 'वर्णानामाश्रमिणां च सामान्यरूपतया धर्मसाधनानि कथ्यन्ते / धर्मे श्रद्धा धर्मे मनःप्रसादः / अहिंसा भूतानामनभिद्रोहसंकल्पः / प्रतिषिद्धस्याभिद्रोहस्य निवृत्तेरधर्मो न भवति, न धर्मो जायते / अनभिद्रोहसंकल्पस्य विहितत्वात् स्यादेव धर्मसाधनम् / 'भूतहितं भूतानामनुग्रहः / सत्यवचनं यथार्थवचनम् / अस्तेयमशास्त्रपूर्वकं परस्वग्रहणं मया न कर्तव्यमिति संकल्पः, न तु परस्वादाननिवृत्तिमात्रमभावरूपम् / ब्रह्मचर्यम् स्त्रीसेवापरिवर्जनम् / एतदपि संकल्परूपम् / अनुपधा 'भावे विशुद्धिः, विशुद्धेनाभिप्रायेण कृतानां कर्मणां धर्मसाधनत्वात् / क्रोधवर्जनं क्रोधपरित्यागः, सोऽपि संकल्पात्मक एव / अभिषेचनं स्नानम् / [टि] त्पत्ति कर्मणो विनाशात / तेषां प्रायणेति प्रकर्षेणागतं गमनं प्रायणं मरणमित्यर्थः / चक्रमादाय इति :-वंशादिमयं.. 1 वैश्यानामिज्याध्ययनदानानि - कं. 1, कं. 2 / 2 नियताश्च - व्यो (640) दे। 3 प्रतिपादितानि वर्णाश्रमिणां-कं. 1, कं.२। 4 वर्णाश्रमिणां - कं. 1, कं. 2 / 5 सामान्यानि -जे. 1 / 6 भूतहितत्वं -कं. 1, कं. 2 / 7 भावशुद्धि-कं १,कं 2 / 8 प्रायेण - अ, ब, क /