________________ टिप्पणपत्रिकाकुसुमोद्गमाविटीकात्रयोपेतम् 621 न्यायकन्दली शक्तिरिति" यागेनाहितत्वादपूर्व यागस्य कार्य स्यान्न तु शक्तिः, अपूर्वोपकृतात् कर्मणः फला'नुत्पत्तेः, तस्माच्चिरनिवृत्त कर्मणि देशकालावस्थादिसहकारिणोऽपूर्वादेष फल'स्योत्पत्तिरित्यपूर्वमेव श्रेयः साधनम् / 'करणत्वश्रुतिस्तु यागावरपूर्वजननद्वारेण न साक्षादिति प्रमाणानुरोधादाश्रयणीयम् / तथा सति युक्तं धर्मः पुरुषगुण इति / योऽपि यागादौ धर्मव्यपदेशः, सोऽप्यपूर्वसाधनतया प्रीतिसाधन इव स्वर्गशब्दप्रयोगः। स्वर्गसाधने हि चोदितस्य ज्योतिष्टोमस्य निरन्तरं प्रीतिसाधनतयार्थवादेन स्तुतेश्चन्दनादौ च प्रीतियोगे सति प्रयोगात, तदभावे चाप्रयोगात, प्रोतिनिबन्धनः स्वर्गशब्दः 'तस्य यथालक्षण्या प्रीतिसाधने प्रयोगः प्रीतिमात्राभिधानेऽपि, तस्मात् प्रीतिसाधनप्रतीत्युपपत्तेरुभयाभिधानशक्तिकल्पनावैयर्थ्यात् / एवं धर्मशब्दस्यापि लक्षणया तत्साधने प्रयोगः, एकाभिधानादेवोभयप्रतीतिसिद्धरुभयाभिधानशक्तिकल्पनानवकाशादिति ताकिकाणां प्रक्रिया / अतीन्द्रियः केनचिदिन्द्रियेणायोगिभिर्न गृह्यत इत्यतीन्द्रियो धर्मः / अन्त्यसुखसंविज्ञानविरोधी / धर्मस्तावत् कार्यत्वादवश्यं विनाशी, न च निर्हेतुको विनाशः कस्यचिद्विद्यते / 'अन्यतस्ततो विनाशे चास्य नियमेन फलोत्पत्तिकालं यावदवस्थानं न स्यात् / फलं च धर्मस्य कस्यचिदनेकसंवत्सरसहस्रोपभोग्यम्, तस्य यदि प्रथमोपभोगादेव नाशः, कालान्तरे फलानुत्पादः / नचैकस्य निर्भागस्य भागशो नाशः सम्भाव्यते, तस्मादन्त्यस्यैव सुखस्य सम्यगविज्ञानेन धर्मो विनाश्यते / ये तु नित्यं धर्मामाहुस्तेषां प्रायणानुपपत्तिः, धर्माधर्मक्षयाभावात् / पुरुषान्तःकरणसंयोगः / आत्मविशेषगुणत्वात् सुखादिवत् / वि"शुद्धोऽभिसन्धिनः / विशुद्धोऽभिसन्धिः दम्भादिरहितः संकल्पविशेषः, तस्माद्धर्मो जायते / "वर्णाश्रमिणां प्रतिनियतसाधननिमित्तः / वर्णा ब्राह्मण [टि.] . "अपूर्वमदृष्टपर्याय इति सिद्धान्तवादिनोऽभिप्रायः / "अपूर्वेण परमते शक्तिसञकेनोपकृतात्सहिता च कर्मणः फलस्यानु 1 नुपपत्तेः-जे. 1 / 2 स्योत्पत्तरपूर्व-कं. 1, कं. 2, जे.२। 3 कारण-कं. 1, कं. 2 4 यस्य-कं. 1, कं. 2 . 5 पत्पत्तेः-कं. 1, क.२। 6 यतस्तता-जे. 1, जे. 2 / 7 दपि-कं. 1, कं. 2, जे. 1 / 8 न्त्यस्यैव-क. 1, कं. 2 / 9 मरणानुपपत्तिः -जे.१। 10 करणेति -कं. 1, कं. 2 / 11 विशुद्धेतिकं. 1, कं. 2 / 12 वर्णाश्रमिणामिति-कं. 1, कं 2 / 13 पूर्व-अ, ब / 14 पूर्वेण-अ, ब।