________________ टिप्पणपञ्जिकाकुसुमोदगमादिटोकात्रयोपेतम् प्रशस्तपादभाष्यम् (233] धर्मः पुरुषगुणः / कर्तुः प्रियहितमोक्षहेतुः, अतीन्द्रियोऽन्त्यसुखसंविज्ञानविरोधी पुरुषान्तःकरण'संयोगविशुद्धाभिसन्धिनः वर्णाश्रमिणां प्रतिनियतसाधननिमित्तः / तस्य' तु साधनानि श्रुतिस्मृतिविहितानि वर्णाश्रमिणां सामान्यविशेषभावेनावस्थितानिद्रव्यगुणकर्माणि / न्यायकन्दली विति सूक्ष्मस्त्रादिष्विति अस्येदं विशेषणमिति मन्यमानाः भग्नानि यानि सूत्रादीनि संवर्तितानि तेष्विति व्याचक्षते / तस्य नित्यानित्यत्वनिष्पत्तयो गुरुत्ववत् / यथा गुरुत्वं परमाणुषु नित्यं 'कार्येष्वनित्यं कारणगुणपूर्वकं च, तथा स्थितिस्थापकोऽपीत्यर्थः / [233] 'धर्मः पुरुषगुणः / यो धर्मः, स पुरुषस्य गुणो न कर्मसामर्थ्यमित्यर्थः / कर्तुः प्रियहितमोक्षहेतुः / कर्तुः प्रियं सुखम्, हितं सुखसाधनम्, मोक्षो नवानामात्मविशेषगुणानामत्यन्तोच्छेदस्तेषां हेतुः / कर्तुः प्रियादीनामेव यो हेतुः स धर्म इति व्याख्येयम् / न तु कतरेव यः प्रियादिहेतुः स धर्म इति व्याख्या, पुत्रेण कृतस्य श्राद्धस्य पितृगामितृप्तिफलश्रवणात् / वृष्टिकामेन कारीयाँ कृतायां तदन्यस्यापि समीपदेशतिनो वृष्टिफलसम्बन्धदर्शनात् / . स्वर्गकामो यजेतेत्यादिवाक्ये यागेन स्वर्ग कुर्यादिति कर्मणः श्रेयःसाधनत्वं भ्रूयते / यश्च निःश्रयसेन पुरुषं संयुनक्ति स धर्मः, तस्माद्यागादिकमेव धर्मः, न पुरुषगुणः / तथाहि, यो यागमनुतिष्ठति तं धार्मिकमित्याचक्षते / एतदयुक्तम् / क्षणिकस्य कर्मणः कालान्तरभाविफलसाधनत्वासम्बन्धात् / अथोच्यते / क्षणिकं कर्म, कालान्त[टि०] ( // अथ गुणग्रन्थे धर्माधर्मनिरूपणम् / ) [233 to 235] फलाय विहितम् इति विहितं सद् यागादिकर्म 'चिरभाविने फलाय भवति / शक्तिः कार्यानुमेया इति शक्तिस्तावत्प्रत्यक्षेन 'न कर्मगतत्वेन नाप्यात्मगतत्वेनोपलभ्यते किन्तु कार्यानुमेया। ततो यस्मिकर्मरूपे आश्रये गता अग्निष्टोम: "स्वर्गहेतुः इत्येवमुपलभ्यते तस्मिन्नेवाश्रये गताऽङ्गीकर्तव्या। स्वाश्रया यत्रवाश्रये कर्मरूपे उत्पन्ना तदाश्रया। 1 संयोगादुपजायते विशद्धाभिसन्धिज:-दे। 2 तस्य च -दे। 3 कार्येऽनित्यं -जे. 3 / 4 धर्मः पुरुषेतिकं. 1, कं 2 / 5 प्रिय सुखं - कं. 1. कं. 2 / 6 पितृगामिफलश्रवणात् - जे. 1 / 7 चिरता - अ। 8 न तावत्कर्मगतत्वेन - अ, ब, क। 9 अस्मिन् - अ, ब / 10 स्वर्ग इत्येव - अ, ब, क / /