________________ 618 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यन प्रशस्तपादभाष्यम् [232] स्थितिस्थापकस्तु स्पर्शवद्रव्येषु वर्तमानो घनावयवसन्निवेश विशिष्टेषु कालान्तरावस्थायिषु स्वाश्रयमन्यथाकृतं 'यथावस्थितं स्थापयति / स्थावरजङ्गमविकारेष धनुःशाखा'शृङ्गदन्तास्थिसूत्रवस्त्रादिषु भुग्नसंवर्तितेषु स्थितिस्थापकस्य कार्य संलक्ष्यते / नित्यानित्यत्वनिष्पत्तयोऽस्यापि 'गुरुत्ववत् / न्यायकन्दली [231] आदरप्रत्ययजं संस्कारं दर्शयति-प्रयत्नेनेत्यादिना / आदरः प्रयत्नातिशयः, तस्मादपूर्वमर्थ द्रष्टुमिच्छतो यद्विद्युत्सम्पातदर्शनवदर्थदर्शनं तदादरप्रत्ययः, तमेवापेक्षमाणादात्ममनसोः संयोगात् संस्कारातिशयो जायते, चिरकालातिक्रमेऽपि तस्यानच्छेदात् / . अत्रोदाहरणम्-यथा देवहूदे 'राजतसौवर्णपद्मदर्शनादिति / देवहदे चैत्रमासस्य चित्रानक्षत्रसंयुक्तायां पौर्णमास्यामर्धरात्रे राजतानि सौवर्णानि च पद्मानि दृश्यन्त इति वार्तामवगम्य तस्यां तिथौ दिदृक्षया मिलितानां सन्निधीयमानेऽर्धरात्रे प्रयत्नातिशया- .. च्चक्षषि मनः स्थापयित्वा स्थितानामुत्थितेषु पद्मषु क्षणमात्रदर्शनादादरप्रत्ययात् संस्कारातिशयः कालान्तरेऽपि स्फुटतरस्मृतिहेतुरुपजायते / [232] 'स्थितस्थापकं कथयति-स्थितस्थापकस्त्विति / अस्पर्शवद्व्यवृत्तेर्भावनाख्यात् संस्कारात् स्पर्शवद्व्यवृत्तित्वेन स्थित स्थापकस्य विशेषमाख्यातुं तुशब्दः / "घना निबिडा ये अवयवसनिवेशाः तैविशिष्टेषु स्पर्शवत्सु द्रव्येषु वर्तमानः स्थितस्थापकः स्वाश्रयमन्यथाकृतमवनामितं यथावत्स्थापयति पूर्ववद जकरोति / ये प्रत्यक्षतोऽनपलम्भात् स्थितिस्थापकस्याभावमिच्छन्ति तान् प्रति तस्य कार्येण सद्भावं दर्शयन्नाह-स्थावरजङ्गमविकारेष्विति / भुग्ना: "कुब्जीकृताः संविर्तताः पूर्वावस्थां प्रापिताः, भग्नाश्च ते संवर्तिताश्चेति भुग्नसंविर्तताः तेषु स्थितिस्थापकस्य कार्य लक्ष्यते / किमुक्तं स्यात् ? धनुःशाखादिष्ववनामितविमुक्तेषु यत् पूर्वावस्थाप्राप्तिहेतोराद्यस्य कर्मणः एकार्थसमवेतमसमवायिकारणं स स्थितिस्थापकः संस्कारः, अन्यस्यासम्भवात् / अन्ये तु भग्नसंवर्तिते / गुरुवटणा-यावर दुसरासर इत्यादि-काज . सजावयास्यति क. सका। 1 वर्तमाने दे। 2 विशिष्टे अकालान्त रा-दे। 3 यथावत् - दे। 4 दन्तशृङ्गास्थिषु - दे। 5 भस्म -दे। 6 गुरुत्ववदृष्टव्याः -पा. 5. पु. दं। 7 इत्यादि-कं. 1, कं. 2 / 8, 9, १०-स्थिति कं. 1, कं. 2 / 11 ये घना-कं. 1, कं. 2 / 12 पूर्ववदजं-कं. 1, कं. 2 / 13 आकुञ्चीकृताः -जे. 1 / /