________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् न्यायकन्दली कालव्यवहितास्त'दधियः कारणम, कार्योन्नया हि शक्तयो भावानाभ, यथा तेभ्यः कार्य दृश्यते, तथैव तेषां शक्तयः कल्प्यन्ते / यथोपदिशन्ति सन्तः यावन्तो यादशा ये च यदर्थप्रतिपादने / वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः // इति // 'अत एवं नदीदीनेत्यादिष्वर्थभेदः, क्रमभेदात् / वर्णेषु क्रमो नास्ति स कथमेषामङ्ग स्यादिति चेन्न तेषामुत्पत्ति माजामव्याप्यवृत्तीनां देश'कृतस्य कालकृतस्य च पौर्वापर्यस्य सम्भवात् / यच्चेदमुक्तम् 'प्रत्येकशः समुदितानां च न सामर्थ्यमिति, तदपि न परस्य मतमालोचितम् / यद्यपि वर्णा अनवस्थायिनस्तथापि तद्विषयाः क्रमभाविनः संस्काराः संभूय पदार्थधियमातन्वते / यद्वा पूर्ववर्णसंस्कारस्मरणयोर न्यतरापेक्षोऽन्त्यो वर्णः प्रत्यायकः, यथा चानेकसंस्काराः संभूय स्मरणं जनयन्ति तथोपपादितं द्वित्वे / अथ मन्यसे वर्णविषयात् संस्कारादर्थप्रतीतिरयुक्ता, संस्कारा हि यद्विषयोपलम्भसम्भावितजन्मानस्तद्विषयामेव स्मृतिमाधातुमीशते न कार्यान्तरम् / यथाह मण्डनः स्फोटसिद्धौ संस्काराः खलु यद्वस्तुरूपप्रख्या विभाविताः / फलं तत्रैव जनयन्त्यतोऽर्थे धीन कल्प्यते // इति / - तदप्यसमीचीनम् / यतः पदार्थप्रतीत्यनुगुणतया प्रत्येकमनुभवैराधीयमाना वर्णविषयाः संस्काराः स्मृतिहेतुसंस्कारविलक्षणशक्तय एवाधीयन्ते, तथाभूतानामेव तेषां कार्येणाधिगमात् / सन्तु वा भावनारूपाः संस्कारास्तथापि तेषामर्थप्रतिपादनसामर्थ्यमुपपद्यते, तद्भावभावित्वात् / यो हि स्फोटं कल्पयति, तेन स्फोटस्यार्थप्रत्यायनशक्तिरपि कल्पनीयेति कल्पनागौरवम् / उभयसिद्धस्य संस्कारस्य सामर्थ्यमात्रकल्पनायां लाघवमस्तीत्येतदेव कल्पयितुमुचितम् / यथोक्तं न्यायवादिभिः यद्यपि स्मृतिहेतुत्वं संस्कारस्य व्यवस्थितम् / कार्यान्तरेऽपि सामयं न तस्य प्रतिहन्यते // इति / तदेवं वर्णेभ्य एव संस्कारद्वारेणार्थप्रत्ययसम्भवादयुक्ता स्फोटकल्पनेति / 1 तदर्थविषयः-जे. 3 / 2 'सर्वगतत्वान्नित्यत्वाच्च वर्णानां क्रमभाव:' पाठोऽयं-जे-१, जे. 2, जे. 3, पुस्तके नास्ति, अत्र च न तस्य संगतिः अतो न स्वीकृतः सं.। 3 देशकालकृतस्य-कं. 1, कं. 2 / 4 एकैकश:-जे. 3 / 5 न्यतरसापेक्ष-कं. 1, कं. 2 / 6 तिभाविना:-जे.१। 7 प्रतिपादन-कं. 1, कं. 2 / 78