________________ 616 न्यायकन्दलीसंवलितप्रशस्तपादनाष्यम् प्रशस्तपादभाष्यम् [231] प्रयत्नेन मनश्चक्षुषि स्थापयित्वाऽपूर्वमर्थ दिदृक्षमाणस्य विद्युत्सम्पातदर्शनवदादरप्रत्ययः तमपेक्षमाणादात्ममनसोः संयोगात् संस्कारातिशयो जायते / यथा देवहूदे 'राजतसौवर्णपद्मदर्शनादिति / न्यायकन्दली एवं प्राप्तेऽभिधीयते / गुणरत्नाभरणः कायस्थकुलतिलकः 'पाण्डुदास इत्यादिषु पदेषच्चार्यमाणेषु क्रमभाविनो वर्णाः परं प्रतीयन्ते न त्वन्ते वर्णव्यतिरिक्तस्य कस्यचिदर्थस्य संवेदनमस्ति / यदि हि तस्य पूर्व वर्णात्मकतया संविदितस्यान्ते स्वरूपसंवेदनम्, पूर्वज्ञानस्य मिथ्यात्व मवसीयते रजतज्ञानस्येव शुक्तिकासंवित्तौ / न चैवं प्रतिपत्तिरस्ति 'नायं वर्णः किं तु स्कोटः' इति / या चेयमेकावशिनी बुद्धिः, सापि नार्थान्तरमवभासयति, किन्तु वनप्रत्ययवद्वर्णसमुदायमात्र'मालम्बते / 'शब्दादर्थ' प्रतिपद्यामहे' इति वर्णसमुदायमेवोरीकृत्य लोकः प्रयुक्ते / न च प्रत्यक्षेणाप्रतीयमानः प्रमाणान्तरतः शक्यो निरूपयितुम्, उपायाभावात् / अर्थप्रतीत्यन्यथानुपपत्तिस्तदुपाय इति चेत् ? किमप्रतीयमानः स्फोटोऽर्थाधिगमहेतुः समर्थितो भवद्भिः? प्रतीयमानो वा ? अप्रतीयमानस्य हेतुत्वे सर्वदार्थप्रतीतिप्रसङ्गः। प्रतीतिश्च तस्य नास्तीत्युक्तम्, अर्थप्रत्ययोऽपि च वर्णानामेव तद्भावभावितामनुगच्छति, तेषामेव वरं व्युत्पत्त्यनुसारेणार्थप्रतिपादने कश्चिदुपाय "आश्रीयताम् न पुनरप्रतीयमानस्य गगनकुसुमस्येव कल्पना "युक्ता। न चेदं वाच्यं वर्णानां प्रतिपादकत्वे क्रमभेदे कर्तभेदे व्यवधाने च प्रतीतिप्रसङ्ग इति / नहि विपरीतक्रमाः कर्तुभेदानुपातिनो देश [टि०] "संस्काराः खल इति यस्य वस्तुन: "रूपप्रख्यया स्वरूपज्ञानेन विभाविता जनितास्तत्रव वस्तुनि "फलं स्मृतिरूपं ज्ञानं जनयति नार्थे, ततः संस्कारेभ्यो नार्थज्ञानम् / यद्यपि स्मृतिहेतुत्वम् इति कार्यान्तरेऽर्थप्रत्यायनरूपे / एतावता अन्येनापत्तेरन्यथोपपत्तिर्दषणं प्रतिपादितम् // संस्कारः // 1 सौवर्णपजत-व्यो। 2 रत्नाभर:-जे. 3 / 3 श्री इतिपाला: चाण्डदास इति पाठान्तरम-जे.।। 4 न त्वन्यस्य -जे.३। 5 अवसीयेत-जे. 2, जे. 3 / 6 मद-कं. 1, क. 2 / 7 मेवोररीकृत्य-कं. 1, कं. 2 / 8 धिगमे -कं. 1, कं. 2 / 9 प्रत्ययो-कं. 1, क. 2, प्रत्ययोऽपि जे. 1 / 10 आश्रितो-जे. 1, जे. 2 / 11 कृताजे. 1, जे. 2 / 11 संस्कारा हि खल मु.- जे. 1, 2, 3 / 13 प्रत्यक्षेया-अ, ब। 14 फल - अ, ब, क /