________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् न्यायकन्दली जातो निखिलवर्णविषयामेकामेव स्मृति युगपत् करोतीत्याश्रीयते, तदा क्रमो 'हीयते / क्रमो हि पौर्वापर्यम्, तच्च देशनिबन्धनं कालनिबन्धनं वा स्यात्, उभयमपि तद्वर्णेषु नावकाशं लभते, तेषां सर्वगतत्वान्नित्यत्वाच्च / बुद्धिक्रानिबन्धनस्तु वर्णानां क्रमो भवेत्, स चैकस्यां स्मृतिबुद्धौ 'विपरिवर्तमानानां प्रत्यस्तमित 'इत्यक्रमाणामेव प्रतिपादकत्वम् / ततश्च सरो रसो वनं नवं नदी दीनेत्यादिष्वर्थभेदप्रत्ययो न स्याद्वर्णानामभेदात्, क्रमस्य प्रतीत्यनङ्गत्वाच्च / अस्ति चायं प्रतीतिभेदः सवर्णेष्वनुपपद्यमानः ? तयतिरिक्तं निमित्तान्तरमाक्षिपतीति स्फोटसिद्धिः / नन स्फोटोऽपि नानभिव्यक्तोऽर्थं प्रतिपादयति, सर्वदार्थोपलब्धिप्रसङ्गात् / अभिव्यक्तिश्च न तस्य वर्णेभ्यः सम्भवति, उक्तेन न्यायेन तेषामेक'कशः समुदितानामप्यसामर्थ्यात्, तस्मात् स्फोटादपि दुर्लभा अर्थप्रतीतिः / / अत्र वदन्ति / प्रयत्नभेदानुपातिनो वायवीया ध्वनयः प्रत्येकमेव तत्तद्वर्णात्मकतया स्फोटमस्फुटमभिव्य जयन्तः पूर्वपूर्वविषयसंस्कारसाचिव्यलाभार्दन्त्ये स्फोटमाभासयन्ति / तथा चान्ते प्रत्यस्तमितनिखिलवर्णवि"भागोल्लेखमक्रममनवयवमेकं विस्पष्टमर्थतत्त्वमनुभयते / यदि हि वर्णा एव पदम् ? न तदेकबुद्धिनिर्ग्राह्यमिति अनालम्बना बुद्धिः पर्यवस्यति / 'शब्दादर्थं प्रतिपद्यामहे' इति च व्यपदेशो न घटते / तस्माद्वर्णव्यतिरिक्तः कोऽपि सम्भवत्येको यस्मादर्थः स्फुटी"भवतीति / टि.] - यदि हि वर्णा एव इति :- एक पदं मया गृहीतमित्येवंबुद्धिरनालम्बना स्यात् बहुशब्दालम्बनत्वात् / "दूषणान्तरं चाह शब्दादर्थम् इति-किन्तु शब्देभ्योऽथ प्रतिपद्यामहे इति बहुवचनेन प्रयोग: स्यात् / यदि हि तस्य इति -पूर्व 'घ' इति 'ट' च वर्णात्मतया ज्ञातस्यान्त्ये स्वरूपसंवेदनं स्फोटरूपस्य संवेदनम् / किन्तु "वनप्रत्ययवद् इति - यथा * समुदितेषु वृक्षेषु वनमिति प्रत्ययस्तथा समृदितेषु वर्णेषु "एकं [पदं] इति "प्रत्ययः / "प्रतीतिश्च नास्तीत्युक्तम् इति प्रत्यक्षतो हि शब्दस्यैव प्रतीयमानत्वं न पूनः स्फोटस्येति / 1 हीयेत-कं. 1, कं. २;जे. 2 / 2 परिवर्तमानानां कं. 1, कं 2, विपरिवर्तितानां-जे. 2 / 3 इति क्रमाणामेव -जे. 3 / 4 मतश्च-कं. 1, कं. 2 / 5 सर्वदोपलब्धिप्रसङ्गात्-जे. 1, जे. 2. जे, 3 / 6 मेकैकतः समुदितानां चासामर्थ्यात कं. 1 कं 2 / 7 व्यञ्जन्त:-जे. 2, जे 3 / 8 पूर्व-कं. 1 कं. 2 / 9 अन्ते स्फोटमाभासयन्ते -कं. 1, कं. 2, आभासयन्ति -जे. 3, अन्त्ये स्फुटमाभासयन्ते-जे. 2 / 10 विभागोल्लेखक्रम कं. 1, कं. 2 / .11 भवति. जे. 1, जे. 2, जे. 3 / 12 गृहीत इत्येवं-अ, ब / 13 दूषणान्तरमाह-अ, ब / 14 वचन - अ, ब। 15 एक मिति-अ, ब, क। 16 प्रत्यय-अ, ब / 17 प्रतीतिश्चु-अ%; प्रितीतिश्च-ब।