________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम न्यायकन्दली 'पूर्वपूर्वसंस्कारमपेक्षमाणादात्ममनसोः संयोगात् संस्कारातिशायो जायते यः सुचिरमनुवर्तते, स्फुटतरं च स्मरणं करोति / न ह्याद्यानुभव एव संस्कारविशेषमाधत्ते, प्रथमं तदर्थस्मरणाभावात् / नाप्युत्तर एव तस्य हेतुः, पूर्वाभ्यासवैयर्थ्यात् / तस्मात् पूर्वसंस्कारापेक्षोत्तरोत्तरानुभवाहिताधिकाधिकसंस्कारोत्पत्तिक्रमेणोपान्त्यसंस्कारापेक्षादत्यानुभवात् तदुत्पत्तिः / [230] इदं त्विह निरूप्यते / विद्यायामभ्यस्यमानायां कि तदर्थो वाक्येन प्रतिपाद्यते ? किं वा स्फोटेन ? कुतः संशयः ? विप्रतिपत्तेः / एके वदन्ति स्फोटोऽथ प्रतिपादयतीति / अपरे त्वार्वाक्यं प्रत्यायकमिति / अतो युक्तः संशयः / किं तावत्प्राप्तम् ? स्फोटोऽर्थप्रत्यायक इति / यदि हि वर्णानतिरिक्तं पदम्, पदानतिरिक्तं च वाक्यम्, तदार्थप्रत्यय एव . न स्यादिति / तथाहि न वर्णाः प्रत्येकमर्थविषयां धियमाविर्भावयन्ति, शेषवर्णवैयात् / समुदायश्च तेषां न सम्भवति, अन्त्यवर्णग्रहणसमये पूर्वेषामसम्भवात् / नित्यत्वाद्वर्णानामस्ति समुदाय इति चेत् ? तथापि न तेषां प्रतीतिरनुवर्तते, अप्रतीयमानानां च प्रत्यायकत्वे 'सर्वदार्थप्रतीतिप्रसङ्गः / नहि प्रतीत्य अप्रतीयमानानां सर्वथा अप्रतीयमानानां च कश्चिद्विशेषः / पूर्वावगता वर्णाः स्मृत्यारूढाः प्रतीतिहेतव इति चेत् ? यदि हि स्मृतिरपि क्रमभाविनी? तदा नास्ति वर्णवत् साहित्यम्, तृतीयवर्णग्रहणकाले प्रथमवर्णस्मृतिविलोपात्, युगपदुत्पादस्तु स्मृतीनामनाशङ्कनीय एव, ज्ञानयोगपद्यप्रतिषेधात् / अथ प्रथम'माद्ये वर्णे ज्ञानम्, तेन संस्कारः, तदनु द्वितीयवर्णज्ञानम्, तेन प्राक्तनेन संस्कारेणान्यो विशिष्टः संस्कारो जन्यत इत्यनेन क्रमेणान्त्ये निखिलवर्णविषयः संस्कारो [टि०] 'नन्वत्यन्ताप्रतीतानामर्थप्रत्यायकत्वं पूर्वप्रतीत्याप्रतीतानां त्वर्थप्रत्यायकत्वमिति नातिप्रसङ्ग इत्याह न हि प्रतीत्याप्रतीये इति / अस्ति चायं 'प्रतीतिभेद इति एतेनार्थ"प्रतीत्यन्यथानुपपत्त्या स्फोटसिद्धावपत्तिः प्रमाणं दर्शितम् / 1 पूर्वेत्यादि यत:-क. 1, कं. 2 / 2 एव हेतु:-कं. 1, कं. 2 / 3 अनुभवाधिकाधिक-जे. 1 / 4 सर्वदा. प्रतीति-जे. 1, जे. 2 / 5 वर्णसाहित्यम्-क. 1, कं. 2, न वर्णवत् साहित्यम जे. 3 / 6 आद्यवर्णज्ञानं तदनु संस्कारः, तदन तृतीयवर्णज्ञानम्, तेन प्राक्तनेन संस्कारेणान्त्यो-कं. 1, कं.२ 7 क्रमेणान्ते-कं.१, कं.२; क्रमेणान्त्यो-जे. 2 / 8 नन्वत्यन्ताना सर्वार्था - अ, ब; नन्वत्यानामर्थाना-क। 9 प्रतीतभेद - अ, ब / 10 प्रतीत्याथा-अ। 13 मेणान