________________ टिप्पणपत्रिकाकुसुमोनमाविटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [229 to 230] भावनासंज्ञकस्त्वात्मगुणो 'दृष्टश्रुतानुभूतेष्वर्थेषु स्मृतिप्रत्यभिज्ञान हेतुभवति ज्ञानमददुःखादिविरोधी, पटवभ्यासादरप्रत्ययजः, पटु'प्रत्ययापेक्षादात्ममनसोः 'संयोगादाश्चर्येऽर्थे पटुः 'संस्कारो जायते / यथा दाक्षिणात्यस्योष्ट्रदर्शनादिति / विद्याशिल्पव्यायामादिष्वभ्यस्यमानेषु तस्मिन्नेवार्थे पूर्वपूर्वसंस्कारमपेक्षमाणादुत्तरोत्तरस्मात् प्रत्ययादात्ममनसोः 'संयोगात् संस्कारातिशयो जायते / न्यायकन्दली [229] भावनास कस्त्वात्मगुणः / भावनासंज्ञकस्तु संस्कार आत्मगुणः / 'दृष्टभुतानुभूतेष्विति / दृष्टश्रुतानुभूतेष्वर्थेषु स्मृतेः प्रत्यभिज्ञानस्य च हेतुरिति तस्य कार्यकथनम् / दृष्टश्रुतानुभूतेष्विति विपर्ययावगतोऽप्यर्थो बोद्धव्यः, तत्रापि स्मृतिदर्शनात् / 'मानमकदुःखादिविरोधी / प्रतिपक्षज्ञानेन संस्कारो विनाश्यते / द्यूतादिव्यसनापन्नस्य पूर्वाधीतविस्मरणात् / मदेनापि संस्कारस्य विनाशः, सुरामत्तस्य पूर्वस्मृतिवि"लोपात् / मरणादिदुःखादपि संस्कारो विनश्यति, जन्मान्तरानुभूतस्मरणाभावात् / आदिशन्वेन सुखाविपरिग्रहः, भोगासक्तस्य कुपितस्य वा पूर्ववृत्तस्मत्यभावात् / पद"भ्यासादरप्रत्ययनः / पटुप्रत्ययादभ्यासप्रत्ययादादरप्रत्ययाच्च संस्कारो जायते / पटुप्रत्ययापेक्षादात्ममनसो. संयोगविशेषादाश्चर्येऽर्थे पटुः संस्कारो जायते / "यथा दाक्षिणात्यस्योष्ट्रदर्शनादिति / उष्ट्रो दाक्षिणात्यस्यात्यन्ताननुभूताकारत्वादाश्चर्यभूतोऽर्थः / तद्दर्शनात् तस्य पटुः संस्कारो जायते, कालान्तरेऽप्युष्ट्रानुभवस्मृतिजननात् / अभ्यासप्रत्ययजं संस्कारं दर्शयति-"विद्याशिल्पव्यायामादिष्वित्यादिना। विद्या शास्त्रागमादिका, शिल्पं पत्त्रभङ्गादिक्रिया, व्यायाम आयुधादिश्रमः, तेष्वभ्यस्यमानेषु तस्मिन्नेवार्थे पूर्वगृहीते / [टि०] [228 to 232] अथ स्फोटवादी स्फोट"प्रतिद्वन्द्विनं नित्यशब्दवादिनं मीमांसकमाशङ्कते नित्यत्वाद्वर्णानाम् इति / "तथापि तेषाम् इति ज्ञानानां क्षणिकत्वात् / 1 दृष्ट:-दे। 2. हेतुर्ज्ञान-दे। 3 प्रत्ययापेक्षादाश्चर्येऽर्थे-दे। 4 संयोगविशेषात्-पा. 5. पु. 2 / 5 संस्कारातिशयो-कं. 1, कं.२। 6 संयोगाच्च-दे। 7 भावनेत्यादि-कं. 1, कं.२। 8 आत्मनो गुणः -जे.१। 9 प्रतीकमिदं-जे. 1, जे. 2, जे. 3. पुस्तकेषु नास्ति / 10 ज्ञानेति-कं 1, कं. 2 / 11 लोपात्-कं. 1, कं. 2 / 12 पट्वभ्यासेति-कं. 1, कं. 2 / 13 त्ममनःसंयोगात जे-१। 14 यति-कं. 1, कं. 2 / 15 विद्याशिल्पेत्यादि-कं. 1, कं. 2 / 16 प्रसिद्धद्धिनं - अ, ब। 17 तथापि न तेषाम् - मु।