________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् 'च' शब्दसमुच्चिताश्च गुरुत्वद्रवत्वस्नेहसंस्कारादृष्टशब्दाः सप्तवेत्येवं 'चतुर्विशतिर्गुणाः / न्यायकन्दली तेऽत्रैवान्तर्भवन्ति / शौर्यो बलवतोऽपि परस्य पराजयं प्रत्युत्साहः / स च प्रयत्नविशेष एव / सततं 'सन्मार्गानुवर्तिनी बुद्धिरौदार्यम् / परदुःखप्रहाणेच्छा कारुण्यम् / तत्त्वाभिनिवेशिनी बुद्धिर्दाक्षिण्यम् / औग्यमात्मन्युत्कर्षप्रत्यय इत्येवमादिः / अदृष्टशब्देन धर्माधर्मयोरुपसङग्रहः / 'संस्कार इति / स च वेगस्य भावनायाः स्थितिस्थापकस्य चाभिधानम् / नन्वेवं ताधिक्यम् ? न, संस्कारत्वजात्यपेक्षया वेगभावनास्थिति[टि०] अनुमानतो वा मनस्त्वादिवत् / तत्र नाद्यः, असम्भवात् / न द्वितीयः, तथा विरङ्गानुपपत्तेः / अदृष्टपदप्रयोगातत्सिद्धिरिति चेन्न / अन्योन्याश्रयप्रसङ्गात् / सिद्धे हि अदृष्टत्वे शब्दप्रयोगस्तत्सिद्धौ चादृष्टत्वसिद्धिरिति / संस्कार त्रयस्य तु संस्कारत्वस्य स्याश्रयस्य पूर्वावस्थाप्रापको गुण: संस्कार 'इति व्यवस्थापकं लक्षणमस्ति / नन्वस्य लक्षणस्य परमाणुगतस्थितस्थापकत्वसंस्कार व्यापकत्वाभावात् कथं संस्कारत्वव्यवस्थापक वम् ? न, तज्जातीये 'उत्पत्तिमतिसम्भवात् / ननु तथापि परमाण्वन्तरनोदनजनितः पालिप्रध्वंसनिवृत्तप्रतिबन्धैः कर्मभिरारब्धेन परमाणुवेगेन सकलेऽपि तडागावयविनि जनितो यो "वेगः स तावत्का रणगुणपूर्वो न तु वातव्यभिपातनजन्यः, तदानीमवयवारब्धन तनावयविनिष्पत्तिसमकालं हि वातव्यभिघातरूप: संयोगः सम्भवति, ततः संयोगानन्तरं क्रिया यदा चाभिघातस्तदैव च कार गगूणक्रमेण १३वेगोऽपि प्रारब्धः, वेगेन च क्रियेति / स वेगो निष्क्रियेऽवयविन्यारब्धः क्रियावत्तां जनयतीति "पूर्वावस्थाप्रायको न भवति, ततो लक्षणस्याव्यापकत्वम् / सत्यम, अत्रापि तज्जातीयसम्भवित्वमेवोत्तरम् / एवं च सकर्मावस्थारब्धस्य वेगस्य सकर्मावस्थापादकत्वात् संस्कारत्वे लक्षणं व्यवस्थापकं भवति / ] परमव्यापकत्वादस्य लक्षणस्य लक्षणान्तरं संस्कारत्व" साधने प्रमाणं च चिन्त्यम् / अदृष्टत्व साधनप्रमाणवत् संस्कारत्वसामान्य [पं०] स्थापकसंस्कारः / 3 / अपरः प्राह-एवं सति न चतुर्विंशतित्वमित्यादि / श्रीधरः नेत्यादि / अदृष्टत्वजात्याभावा दिति- अदृष्टत्वजातेधमाधर्मव्यक्तिष्वभावः / व्यक्त्याश्रितकरूपव्यंजकाभावात् / यत्र तु जातिर्भवति तत्र व्यकत्याश्रित करूपव्यंजकसद्भावः / यथा सुरभ्यसुरभिगन्धे घ्राणकग्राह्यत्वमित्यर्थः / निर्गुणेष्वपीति-संख्यागुणरहितेष्वपि / [कु०] प्रत्यक्षजातीयकार्यत्वे प्रत्यक्षजातीयकार[ण]त्वे च सत्त्वप्रत्यक्षत्वेनोपसगृहीतानामेकजातीयत्वादिति भावः / अदृष्टत्वजात्यभावादिति (कं. 11.1) कार्यकारणलक्षणादीनामुपसङ्ग्रहे का[र]णा[ना]मभावादित्यर्थः / असाधारणधर्मयोगित्वेने [ति] (कं. 11.2 / भेदवत[:] क्रमबुद्धिविषयत्वात् / 1 चतुर्विशतिगुणा:-कि। 2 पराजयाय प्रत्युत्साहः- कं. 1; कं. 2 / 3 सन्मार्गवर्तिनी-कं. 1, कं. 2 / 4 आदि--जे. 1; जे. 3 / 5 संस्कार इति च -जे. 1; जे. 3 / 6 तथाभूत-ड; 7 चेत्-अ, ब, क. 8 इत्यव्यवस्थापक-अ, ब; 9 अनुत्पत्तिमत्ति-अ%; 10 वेगे-अ, ब, 11 कारगुण-अ, ब; 12 -यव-अ, वयतब, क; 13 वंगोऽपि-अ; 14 क्रियते-अ, ब, क; 15 वित्प्रारब्ध-अ; 16 पूर्वावस्थापकं भवति-अ, ब; 17 [ ] एतच्चिह्नान्तर्गतः पाठः अब पुस्तकयो स्ति। 18 लक्षणान्तरत्वसाधन - अ, ब; लक्षणान्तरसंस्कारत्व -- क; 19 साधनेम-क; 20 साधनस्य-ब;