________________ 608 "न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [225] गुरुत्वं जलभूम्योः पतनकर्मकारणम् / अप्रत्यक्षं पतनकर्मानुमेयं संयोगप्रयत्नसंस्कारविरोधि / तस्य चाबादिपरमाणुरूपादिवन्नित्यानित्यत्वनिष्पत्तयः। .. न्यायकन्दली . ... इतरस्तु इच्छाद्वेष'पूर्वकस्तु हिताहितप्राप्तिपरिहारसमर्थस्य 'व्यापारस्य हेतुः शरीरविधारकश्च / गुरुत्वे सत्य'पततः - शरीरस्येच्छापूर्वकः प्रयत्नो विधारकः / स चात्ममनसोः संयोगादिच्छाद्वेषापेक्षादुत्पद्यते / हितसाधनोपादाने प्रयत्न इच्छापूर्वकः, दुःखसाधनपरित्यागे प्रयत्नो द्वेषपूर्वकः / [225] गुरुत्वं जलभूम्योरित्याश्रयकथनम् / पतनकर्मकारणमिति तस्य कार्यनिरूपणम् / अप्रत्यक्षमिति स्वभावोपवर्णनम्, न केनचिद्विन्द्रियेण गुरुत्वं गृह्यत इत्यर्थः / ये तु त्वगिन्द्रियग्राह्यं गरुत्वमाहः, तेषामधःस्थितस्य द्रव्यस्य स्पर्शोपलम्भवद् गुरुत्वोपलम्भप्रसङ्गः, त्वगिन्द्रियस्यार्थोपलम्भे 'स्वसन्निकर्षव्यतिरेकेणान्यापेक्षासम्भवात् / यत्तूपरिस्थितस्य गुरुत्वं प्रतीयते, तद्धस्तादीनामधोगमनानुमानात् / अतीन्द्रियं चेत् कथमस्य प्रतीतिः ? इत्यत आह-'पतनकर्मानमेयमिति / यदवयविद्रव्यस्य पतनं तेन यदेकार्थसमवेतासमवायि कारणमनमीयते तदेव हि नो गुरुत्वम् / एतेनैतत् प्रत्युक्तं यदुक्तमपरः- "अवयधिगुरुत्वकार्यस्यावनतिविशेषस्यानुपलम्भादवविनि गुरुत्वाभावः" इति, अवयविनः पतनाभावप्रसङ्गात् / 'अथावयवानां गुरुत्वादेव तस्य पतनम् ? तदावयवानामपि स्वावयावापेक्षयाऽवयवित्वात् / पतनमिति सर्वत्र कार्ये तदुच्छेदः / अथ व्यधिकरणेभ्यः "स्वावयवगुरुत्वेभ्योऽवयवानां पतनासम्भवात् तेषु गुरुत्वं कल्प्यते, तदा अवयविन्यपि कल्पनीयम्, न्यायस्य समानत्वात् / यत् पुनरवयविगुरुत्वस्य कार्यातिरेको 1 अस्य च-कं 1, कं. 2, कि। 2 पूर्वकश्च-कं. 1, कं.२; पूर्वक: - जे.१। 3 व्यायामस्य-व्यापारस्यकं. 1, कं. 2; भाष्ये-दे पुस्तके व्यायामस्य इत्यस्य स्थाने व्यापारस्य इति पाठः -सं.। 4 सत्यापततः -जे. 2, जे.३ / 5 पादानेषु - कं. 1, कं. 2; जे. 2 / 6 तत्सन्निकर्ष -जे.१। 7 पतनानुमेयमिति -जे. 1, जे. 2, जे.३। 8 कारणं तदेव - कं.१ .2 .9 अथावयवगुरुत्वादेवास्य-जे., वयवगुरुत्वादेव तस्य-जे. 3, वयवानां गुरुत्वादेवास्य - जे. 2 / 10 स्वावयवगुरुत्वात् - कं. 1, कं. 2 . 2, जे.। .