________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटोकात्रयोपेतम् प्रशस्तपादभाष्यम् [224] प्रयत्नः संरम्भ उत्साह इति पर्यायाः / स द्विविधः जीवनपूर्वकः, इच्छाद्वेषपूर्वकश्च / तत्र जीवनपूर्वकः सुप्तस्य प्राणापानसन्तानप्रेरकः, प्रबोधकाले चान्तःकरणस्येन्द्रियान्तरप्राप्तिहेतुः / अस्य जीवनपूर्वकस्यात्ममनसोः संयोगाद्धर्माधर्मापेक्षादुत्पत्तिः / इतरस्तु हिताहितप्राप्तिपरिहारसमर्थस्य 'व्यापारस्य हेतुः शरीर विधारकश्च / स चात्ममनसोः संयोगादिच्छापेक्षाद् द्वेषापेक्षाद्वोत्पद्यते // .. न्यायकन्दली प्रयत्नधर्माधर्मस्मृतिहेतुः / एनमहं हन्मीति प्रयत्नो द्वेषात्, वेदार्थविप्लवकारिषु द्वेषाद्धर्मः, तदर्यपरिपालनपरेषु द्वेषादधर्मः / स्मृतिरपि द्वेषा'दुपजायते, यो यं द्वेष्टि स तं सततं स्मरति / क्रोधो द्रोहो मन्युरक्षमाऽमर्ष इति द्वेषभेदाः। शरीरेन्द्रियादिविकारहेतुः क्षणमात्रभावी द्वेषः क्रोधः। अलक्षितविकारश्चिरानबद्धापकारावसानो द्वेषो द्रोहः / अपकृतस्य प्रत्यपकारासमर्थस्यान्तनिगूढो द्वेषो मन्युः / परगुणद्वेषोऽक्षमा। स्वगुणपरिभवसमुत्थो द्वेषोऽमर्षः। [224] प्रयत्नः संरम्भ उत्साह इति पर्यायाः / स द्विविधो जीवनपूर्वक 'इच्छाद्वेषपूर्वकरचेति / सदेहस्यात्मनो विपच्यमानकर्माशयसहितस्य मनसा 'सह संयोगः सम्बन्धो जीवनम्, तत्पूर्वकः प्रयत्नः कामर्थक्रियां करोति इत्यत आह- .. ... तत्र जीवनपूर्वक इति / सुप्तस्य प्राणापानक्रिया प्रयत्नकार्या प्राणापानक्रियात्वात्, जाग्रतः पाणापानक्रियावत् क्रियात्वात् / न च तदानीमिच्छाद्वेषो प्रयत्नहेतू सम्भवतः, तस्माज्जीवनपूर्वक एव प्रयत्नः प्राणापानप्रेरको गम्यते / न केवलं जीवनपूर्वकः प्रयत्नः प्राणापानप्रेरकः, किन्तु प्रबोधकालेऽन्तःकरणस्येन्द्रियान्तरप्राप्तिहेतुश्च / विषयोपलम्भामुमितान्तःकरणेन्द्रियसंयोगः प्रयत्नपूर्वकान्तःकरणक्रियाजन्यः, अन्तःकरणेन्द्रियसंयोगत्वात्, जागरान्तःकरणेन्द्रियसंयोगवदिति प्रयत्नपूर्वकतासिद्धिः / अस्य जीवनपूर्वकस्यात्ममनसोः संयोगादर्माधर्मापेक्षादुत्पत्तिः, धर्माधर्मापेक्ष आत्ममनसोः संयोगो जीवनम्, तस्मादस्योत्पत्तिरित्यर्थः। - .. . .1 व्यायामस्य - 2 विधायक -दे। 3 विजायते - जे.३।। 4 नबद्धोऽपकाराव-जे. 1, जे. 2, * जे. 3. 5 इत्यादि-कं. 1, कं.२।६ सह सम्बन्धो-जे.१; सहयोगः सम्बन्धो--जे.२। 7 प्रयत्लकार्याक्रियात्वात् - कं. 1, कं. 3 / 8 जीवनपूर्वक एव-कं. 1, कं. 2 / /