________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम : प्रशस्तपादभाष्यम् मैथुनेच्छा कामः / 'अभ्यवहारेच्छाभिलाषः / पुनः पुनविषयानुरञ्जनेच्छा रागः। अनासन्नक्रियेच्छा सङ्कल्पः / स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा कारुण्यम् / दोषदर्शनाद्विषयत्यागेच्छा वैराग्यम् / परवञ्चनेच्छा उपधा। अन्तनिगढेच्छा भावः / चिकीर्षाजिहीर्षत्यादिक्रियाभेदादिच्छाभेदा भवन्ति / [223] प्रज्वलनात्मको द्वेषः / यस्मिन् सति प्रज्वलितमिवात्मानं मन्यते स द्वेषः / स चात्ममनसोः संयोगाद् दुःखापेक्षात् स्मृत्यपेक्षाद्वोत्पद्यते / यत्नस्मृतिधर्माधर्मस्मृतिहेतुः। क्रोधो द्रोहो मन्युरक्षमाऽमर्ष इति द्वेषभेदाः // - न्यायकन्दली ___ कामादय इच्छाप्रभेदाः, न तत्त्वान्तरमिति यदुक्तं तदेव दर्शयति- मैथुनेच्छा काम इति / निरुपपदः कामशब्दो मैथुनेच्छायामेव प्रवर्तते, अन्यत्र तस्य पदान्तरसमभिव्याहारात् 'प्रवृत्तिः, यथा स्वर्गकामो यजेत इति / अभ्यवहारेच्छा अभिलाषः / अभ्यवहारो भोजनम्, तत्रेच्छा अभिलाषः / पुनः पुनविषयानुरजनेच्छा रागः / पुनविषयाणां भोगेच्छा राग इत्यर्थः / अनासन्नक्रियेच्छा सङ्कल्पः। अनागतस्यार्थस्य करणेच्छा सङ्कल्पः / स्वार्थमनपेक्ष्य परदुःख'प्रहाणेच्छा कारुण्यम् / 'स्वार्थ स्वप्रयोजनं किमप्यनभिसन्धाय या परदुःखप्रहाणे अपनयने इच्छा सा कारुण्यम् / दोषदर्शनाद् दुःखहेतु'त्वावगमाद् विषयाणां परित्यागेच्छा वैराग्यम् / परवञ्चनेच्छा परप्रतारणेच्छा उपधा / अन्तनिगढेच्छा लिङ्कराविर्भाविता येच्छा सा भावः। चिकीर्षा जिहीर्षा इत्यादिक्रियाभेदादिच्छाभेवा भवन्ति / करणेच्छा चिकीर्षा, हरणेच्छा 'जिहीर्षा, गमनेच्छा जिगमिषेत्येवमादय इच्छाभेदाः क्रियाभेदाद्भवन्ति। [223] प्रज्वलनात्मको द्वेषः। एतद्विवृणोति-यस्मिन् सतीत्यादिना / तद्वयक्तम् / स चात्ममनसोः संयोगाद् दुःखापेक्षात् स्मृत्यपेक्षाद् वोत्पद्यते / ['सन्निहिते दुःखहेतावनभूयमाने तत्साध्ये दुःखे द्वेषो दुःखादुत्पद्यते] / अतीते दुःखहेतौ तज्जदुःखस्मृतिजो द्वेषः / 1 अभ्यवहरणेच्छा-व्यो, (६२६)-दे। 2 वृत्तिः- जे. 1 / 3 प्रहरणेच्छा-जे. 2 / 4 स्वार्थप्रयोजनं - कं.१ कं. 2 / 5 त्वावगमे - कं. 1; कं. 2 / 6 परित्यागे इच्छा - कं. 1, कं. 2 / 7 जिहीर्षा इत्येवमादयः - जे.१। 8 [ ] एतच्चिान्तर्गतः पाठः कं. 1, कं. 2 पुस्तकयो स्ति। . .