________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपैतम् 105 प्रशस्तपादभाष्यम् [222] स्वार्थ परार्थ वाऽप्राप्तप्रार्थनेच्छा / सा चात्ममनसोः संयोगात् सुखाद्यपेक्षात् स्मृत्यपेक्षाद्वोत्पद्यते / प्रयत्नस्मृतिधर्माधर्महेतुः / कामोऽभिलाषः, रागः ' सङ्कल्पः, कारुण्यम् वैराग्यमुपधा भाव इत्येवमादय इच्छाभेदाः। भ्यायकन्दली सुखप्रत्यनीकतया तदनन्तरं दुःखं ध्याचष्टे-उपघातलक्षणं दुःखम् / उपहन्यतेऽनेनेत्युपघातः, उपघातलक्षणम् उपघातस्वभावम् / दुःखमुपजातं. प्रतिकूलस्वभावतया स्वात्मविषयमनभवं कुर्वदात्मानमुपहन्ति / एतद्विवृणोति-'अनिष्टोपलब्धोत्यादिना / अमर्षोऽसहिष्णुता द्वेष इति यावत् / उपघातो दुःखानुभवः, दैन्यं विच्छायता, तेषा निमित्तम् / दुःखे सति तदनुभवलक्षण 'आत्मोपघातः स्यात् / अतीतेषु सर्पादिषु स्मृतिजम्, अनागतेषु सङ्कल्पजमिति 'सुखवयाख्यानम् / [222] स्वार्थ परार्थ वाऽप्राप्तप्रार्थनेच्छा / अप्राप्तस्य वस्तुनः स्वार्थ प्रति या प्रार्थना इदं मे भूयादिति, परार्थं वा या प्रार्थना अस्येदं भवत्विति सेच्छा / सा चात्ममनसोः संयोगात् सुखाद्यपेक्षात् स्मृत्यपेक्षाद्वोत्पद्यते / अनागते सुखसाधने वस्तुमीच्छा उपजायते, तदुत्पत्ती च तद्विषयसाध्य सुखमनागतमपि बुद्धिसिद्धत्वानिमित्तकारणम् / 'यथाह न्यायपातिककार:-"फलस्य प्रयोजकत्वात्" इति / अतिक्रान्ते सुखहेताविच्छोत्पत्तेः स्मृतिः कारणम् / प्रयत्नस्मृतिधर्माधर्महेतुः / उपादानेच्छातस्तदनुगुणः प्रयत्नो भवति, स्मरणे छातः स्मरणम्, विहितेष ज्योतिष्टोमादिषु फलेच्छया प्रवृत्तस्य धर्मों जायते / प्रतिषिद्धेषु रागात् प्रवृत्तस्याधर्मः / कामादयोऽपि सन्ति ते कस्मानोक्ताः? अत आह- काम इत्यादि। ( // अथ पुणग्रन्थे इच्छानिरूपणम् // ) : [cito]. ..... ! [222 to 227] 'फलस्य प्रयोजकत्वाद् इति स्वर्गादिसुखं ह्यग्निष्टोमांदी प्रयोजयति // इच्छा // . 1 विषादीत्यादिना-जे. 5 / 9 आस्मन उपधातः - जे. 3 / / . 3 पूर्व - कं. 1; कं. 2 / 4 वा प्रार्थना - .1, कं. 2 5 सुखपिक्षात् -जे.२। ६यवाह -कं.१ 6.2 7 उपजायते -जे.१. 8 फतस्य-अ, बैं। प्रयोजनस्वाद्-अ, ब, क / ..