________________ 104 गायकन्दलीसवलितप्रशस्तपदिमाव्यम् प्रशस्तपादभाष्यम् [221] उपघातलक्षणं दुःखम् / विषाद्यनभिप्रेतविषयसानिध्ये सत्यनिष्टोपलब्धीन्द्रियार्थसन्निकर्षादधर्माद्यपेक्षादात्ममनसोः संयोगाद्यदमोंपघातदन्यनिमित्तमुत्पद्यते तद् दुःखम् / भंतीतेषु सर्पव्याघ्रचौराविषु स्मृतिलम् / अनागतेषु सङ्कल्पजमिति / न्यायकन्दली [221] बुद्धिकार्यत्वात् सुख' बुद्धयनन्तरं व्याचष्टे-अनुग्रहलक्षणं सुखमिति / अमुगृह्यतेऽनेनेत्यनग्रहः, अनुग्रहलक्षणमनग्रहस्वभावमित्यर्थः / सुखं झनकलस्वभावतया स्वविषय मनुभवं कुर्वन् 'पुरुषमनुगृह्णाति / एतदेव व्याचष्टे-स्रगादीति / स्रक्चन्दनवनितादयो येऽभिप्रेता विषयास्तेषां 'सान्निध्ये सन्निकर्षे सतीष्टीपलब्धीन्द्रियार्थसन्निकर्षाद्धर्माद्यपेक्षा. धदुत्पद्यते तत् सुखम् / इन्द्रिय सन्निहितेऽप्यभिमतेऽर्थे विषयान्तरन्यासक्तस्य सुखानुत्पादादिष्टोपलब्धेः कारणत्वं गम्यते / वियुक्तस्य सुखाभावाद्विषयसन्निकर्षस्यापि कारणत्वावगमः। 'धर्मादीत्याविपदेन स्वस्थतादिपरिग्रहः / अनुग्रहाभिष्वङ्गनयनादिप्रसाद'जनकमिति कार्योपवर्णनम् / अनुग्रहः सुखविषयं संवेदनम् / अभिष्वङ्गः अनुरागः, नयनादिप्रसादो वैमल्यम् / आविशब्दान्मुखप्रसादस्य ग्रहणम् / एतेषां सुखं जनकम् / सुखेमोत्पन्नेन स्वानुभवो जन्यते, स एवात्मनोऽनुग्रहः, सुखे चोपजाते मुखादीनां प्रसन्नता स्यात् / सुख. 'साधनेष्वनुरागः सुखाद्भवति / अतीतेषु स्मृतिजम् अतीतेषु सुखसाधनेष्वनुभूतेषु सुखं पूर्वानुस्मरणाद्भवति अनागतेष्विदं मे भविष्यतीति सङ्कल्पाज्जायते / यत्तु विदुषामात्मज्ञानवतामसत्सु विषयानुस्मरणसङ्करूपेष्वसति विषयेऽसति चानुस्मरणे असति च सङ्कल्प 'चाविर्भवति, तद्विद्याशमसन्तोषधर्मविशेषनिमित्तमिति / विद्या आत्मज्ञानम्, शमो जितेन्द्रियत्वम्, सन्तोषो देहस्थितिहेतुमात्रातिरिक्ताननिकादिक्षत्वम्, धर्मविशेषः प्रकृष्टों धर्मो निवर्तकलक्षणः, एतच्चतुष्टयनिमित्तम् / ये तु दुःखाभावमेव सुखमाहुस्तेषामानन्दात्मतानुभवविरोधा, हितमास्यामि अहितं हास्यामोति प्रवृत्तिद्वविध्यानुपपत्तिश्च / 1 बुढेरनन्तरं-जे. 3 / 2 पुरुषान्तर-कं. 1, कं. 2 / 3 सान्निध्ये सप्ति - कं. 1, कं. 2 / 4 सन्निहिते - कं.१,कं.२; जे. जे.३ 5 धादि-जे.१।६ जनन-जे. साधने-जे.३। 8 अनागतेषु सङ्कल्पजमिदं में भविष्यात भवत्विदमिति - जे. 1 / 9 यदाविभवति - जे. 1 / 10 त्मना -. 1; कं. 2 //