________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [220] अनुग्रहलक्षणं सुखम् / स्नगाद्यभिप्रेतविषयसान्निध्ये सतीष्टोपलब्धीन्द्रियार्थसन्निकर्षाद् धर्माद्यपेक्षादात्ममनसोः संयोगादनुग्रहाभिष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत् सुखम् / अतीतेषु विषयेषु स्मृतिजम् / अनागतेषु सङ्कल्पजम् / यत्तु विदुषामसत्सु विषयानुस्मरणेच्छासङ्कल्पेश्वाविर्भवति तद्विद्याशमसन्तोषधर्मविशेषनिमित्तमिति // ... म्यायकन्दली. सिद्धदर्शनमपि विद्यान्तरमिति केचिदिच्छन्ति तन्निवृत्त्यर्थमाह-सिद्धदर्शनं न ज्ञानान्तरम् / एतदेवोपपादयति-कस्मादित्यादिना / 'प्रश्नपूर्वकमजनपादलेपादिसिद्धानां दृश्यानां दर्शनयोग्यानां स्वरूपवता पदार्थानां द्रष्टारो ये ते 'सिद्धाः' उच्यन्ते / तेषां दृश्यद्रष्ट्रगामञ्जनादिसिद्धानां सूक्ष्मेषु व्यवहितेषु विप्र'कृष्टेषु चार्थेष यद्दर्शनमिन्द्रियाधोनानुभवस्तत्प्रत्यक्षमेव / अथ दिव्यान्तरिक्षभौमानां प्राणिना ग्रहनक्षत्रसञ्चारनिमित्तं धर्माधर्मविपाकदर्शनं 'सिद्धदर्शनमिष्टं तदप्यनुमानमेव, ग्रहसञ्चारादीनां लिङ्गस्वात् / अथ लिङ्गानपेक्षं धर्मादिषु दर्शनमिष्टं सिद्धानां तत्प्रत्यक्षार्षयोरन्यतरस्मिन्नन्तभतम् / यदि धर्मादिदर्शनमिन्द्रियजं तदा प्रत्यक्षम् / अथेन्द्रियानपेक्षं तदापमित्यर्थः / उपसंहरति-एवं बुद्धिरिति / एवमनन्तरोक्त ग्रन्थक्रमेण / बुद्धिाख्यातेत्यर्थः / इति'शब्दः परिसमाप्ति सूचयति / ( // अथ गुणग्रन्थे सुखनिरूपणम् // ) [टि०] ___[220-221] 'अनुग्रह (हः) सुखविषयम् इति :- 'अत्र भाव'प्रधानोऽनुग्रह-शब्दः // सुखम् // [कु०] बुध्यध्वं तां बुद्धेद्रा (?) भवदभिलषितप्राप्तये तत्प्रदिष्टान भोगान्माकृत्कमा (1)न्यैः कुमतिकलुषितर्वमं (वा ! )भिनिष्यमा (म) र्थान् // इति बुद्धिप्रकरणम् // 1 नुस्मरणसङ्कल्पेषु-दे। 2 प्रयत्न -कं. 1; कं. 2 / 3 विप्रकृष्टेषु यदर्शन -कं. 1; कं. 2 / 4 सिद्धज्ञान-- कं. 1; कं. 2 / 5 मिष्टं तत्-कं. 1; कं. 2 / 6 क्तेन क्रमेण बुद्धिरिति बुद्धिाख्यातेत्यर्थः- क. 1, क. 2; एवमनन्तरोक्तेन क्रमेण बुद्धिाश्यायातेत्यर्थ:-जे. २,जे. 3 / 7 अमुबहः -म. जे. 1,2,3 / 8 भन्न-अ,। 9 प्रभावो-अ,ब,क