________________ टिप्पणपञ्जिकाकुसुमोद्गमाक्टिीकामयोपेतम् प्रशस्तपादभाष्यम् [226] द्रवत्वं स्यन्दनकर्मकारणम् / निद्रव्यवृत्ति / सतु द्विविधम् / 'सासिद्धिकम्, नैमित्तिकं च / सांसिद्धिकमपां विशेषगुणः / नैमित्तिकं पृथिवीतेजसोः सामान्यपुणः / न्यायकन्दली न गृह्यते, तदवयवावयविगुरुत्वभेदस्याल्पान्तरत्वात् / यथा महति द्रव्ये उन्मीयमाने तत्पतितसूक्ष्मद्रव्यान्तरगुरुत्व'कार्यान्तराग्रहणम् / संयोगप्रयत्नसंस्कारविरोधि / गुरुत्वस्य संयोगेन प्रयत्मेन वेगाख्येन च संस्कारेण सह विरोधो विद्यते, तैः प्रतिबद्धस्य स्वकार्याकरणात् / तथा च दोलारूढस्य संयोगेन 'प्रतिबन्धादपतनम्, प्रयत्नेन प्रतिबन्धादपतनं च शरीरस्य, वेगेन प्रतिबन्धादपतनं बहिः क्षिप्तस्य शरशलाकादेः। 'तस्य चाबादिपरमाणुरूपादिवनित्यानित्यत्वनिष्पत्तयः / यथाप्यपरमाणुरूपाक्यो नित्यास्तथा पार्थिवाप्यपरमाणुष्वपि गुरुत्वम् / यथा चाबादिकार्यद्रव्ये कारणगुणपूर्वप्रक्रमेण रूपादयो जायन्ते, आश्रयविनाशाच्च विनश्यन्ति, तथा गुरुत्वमपि / [226] द्रवत्वं स्यन्दनकर्मकारणम् / यत् स्यन्दन कर्मकारणं तद् द्रवत्वमित्यर्थः / निद्रव्यवृत्ति पृथिव्युदकज्वलनवृत्तीत्यर्थः / तत्तु द्विविधमिति / गुरुत्वमेकविधं प्रवत्वं तु द्विविधमिति तुशब्दार्थः / नैमित्तिकं सांसिद्धिकं च / 'निमित्तं वह्निसंयोगः, तस्येदं कार्य'मिति नैमित्तिकम् / 'सांसिद्धिकं स्वभावसिद्धम् वह्निसंयोगानपेक्षमिति यावत् / सांसिद्धिकमपां विशेषगुणः, अन्यत्राभावात् / नैमित्तिकं पृथिवीतेजसोः सामान्यगुणः, "साधारणगुणत्वात् / सांसिद्धिकस्य द्रवत्वस्य गरुत्ववन्नित्यानित्यत्वनिष्पत्तयः / यथा नित्यद्रव्यसमवेतं गुरुत्वं नित्यम्, अनित्यद्रव्यसमवेतं च कार्यकारणगुणपूर्वकमाश्रयविनाशाद्वि"नश्यतीति तथा सांसिद्धिक द्रवत्वमपि / 1 नैमितिकं सांसिद्धिकं च तत्र-दे। 2 कार्याग्रहणम् - कं. 1, कं. 2; जे. 2, जे. 3 / 3, 4, 5 कं. 1 पुस्तके सर्वत्र प्रतिबद्धत्वाद् इति पाठः। 6 अस्य च - कं. 1, कं. 2 / 7 कर्मण:-जे. 1, जे. 2 जे. 3 / 8 निमित्तं च-कं. 1, कं.२। 9 सांसिद्धिकं च-कं. 1, कं. 2; जे. 2, जे. 3 / 10 साधारणस्वात-कं. 1; कं२; बे. 3 / 11 विनाशि-जे. 1, जे. 2 / 77