________________ न्यायकन्दलीसंवलितप्रशस्तपारमाव्यम् न्यायकन्दली स्मृतेनिमित्तकारणमित्याह - पट्वाभ्यासादरप्रत्ययज'निताच्च संस्कारादिति पटुप्रत्ययः स्फुटतरप्रत्ययस्तस्मात् संस्कारो जायते / तेन गच्छत्तणसंस्पर्शज्ञानात् क्वचित् पटुप्रत्ययोत्पादेऽपि ग्रहणयोग्यः संस्कारो न भवति / 'यथा सकृत् पठितेऽनुवाके / तेन गृहीतस्यावृत्त्या पुनःपुनर्ग्रहणलक्षणोऽभ्यासः संस्कारकारणम्, तस्मिन् सत्यनुवाकस्य ग्रहणदर्शनात् / 'क्वचिदत्यन्ताश्चर्यकरे वस्तुनि सकृदुपलब्धेऽपि कालान्तरे स्मृतिदर्शनादादरग्रहणमपि संस्कारनिमित्तम् / दृष्टश्रुतानुभूतेष्विति विषय सङ्कीर्तनम् / दृष्टेष्विति 'प्रत्यक्षप्रतीतेषु श्रुतेष्विति शब्दावगतेषु 'अनुभूतेष्वित्यनुमितेष्वित्यर्थः / शेषानुव्यवसायेच्छास्मरणद्वेषहेतुरिति कार्यनिरूपणम् / शिष्यत परिशिष्यते इति 'शेषः' / 'अनु' पश्चाद्वयवसितिः अनु व्यवसायः। शेषश्चासावनव्यवसायश्च शेषानुव्यवसायः, प्रथमोपजातलिङ्गज्ञानापेक्षया तदनन्तर्भाव्यनुमेयज्ञानम्, तस्य हेतुाप्तिस्मरणम् / सुखसाधनत्वस्मृतिरिच्छाहेतुः / प्रथमपदस्मृतिद्वितीयपदानुस्मरणहेतुः / दुःखसाधकस्मरणं वेषहेतुः / "तवित्येवं स्मृतेराकारः, तत्र चार्थस्यातीतत्त्वं पूर्वानुभूतत्वं प्रतीयत इत्यतीतविषया स्मृतिः। अत एव न प्रमाणम्, तस्याः पूर्वानुभवविषयत्वोपदर्शनेनार्थ निश्चिन्वत्या अर्थपरिच्छेदे पूर्वानुभवपारतन्त्र्यात् / अनुमानज्ञानं तूत्पत्तौ परापेक्षं "स्वविषयपरिच्छेदे स्वतन्त्रमेव, स्मृतिरिव / तस्मात् पूर्वानुभवानुसन्धानेनार्थप्रतीत्यभावात् / यथाहुस्तन्त्रटीकायां सर्वोत्तर"धियो गुरवः - [कु०] [2181 समासान्तरशंकानिवृत्यर्थ द्वन्द्वं व्याचष्टे लिंगदर्शनं चेति (कं. 256) लिंगदर्शनं वहन्यादिलिंगस्य धूमादेर्दशनमिर्छानुस्मरणमनुक्रमवतामन्यतमस्य स्मरणम् / नन्वात्मनः संयोगस्य सर्वदाऽन्यतरक्रियाजन्यत्वेन न विशेषः संभवतीत्यत आह आत्ममनःसंयोगस्येति (कं. 257) परप्रत्ययविषयोद्वौधातिशयकृतं प्रत्यपाटवं ग्रहणदर्शनादिति / पुनरुच्चारणोपयोगिस्मरणदर्शनादित्यर्थः / अत्यन्ताश्चयंतरे वस्तुनीति (कं. 257) अ (औत्सुक्यविशेषण दर्शनीय इत्यर्थः / विषयसंकीर्तनमिति (कं. 257) कारणभेदवद्विषयभेदोऽपि वैधम्यंमिति दर्शयितुमित्यर्थः / नन्बतीतविषयत्वमनुमानस्याप्यस्ति तत्कथं स्मृतेरेव वैधर्म्यमित्यत आह तत्र चेति (कं. 257) अत एव न प्रमाणं न प्रमेत्यर्थः / ननु यदि ज्ञानान्तरसापेक्षतया स्मृतिनं प्रमातर्यनमितिरपि तथा स्यादित्यत आह - अनुमानज्ञानमिति (कं. 257) / स्मृतिरिवेति (कं. 257) स्वविषयपरिच्छेदे पूर्वानुभवापेक्षणात्।। 1 अनितात् संस्काराज्जायते-कं. 1; कं. 2 / 2 न-जे. 1, जे. 2, जे. 3 / 3 यथा साक्षात्-कं.१ .2 / 4 क्वचिच्चात्यन्ताश्चर्यतरे वस्तुनि सकृदुपलब्धे-कं. 1, कं. 2; क्वचिदत्यन्त-जे. 3 / 5 सङ्कीर्तनं कृतम् - कं. 1, कं. 2 / 6 प्रत्यक्षीकृतेषु -कं. 1, कं.२। 7 अनुभतेष्वनु -कं. 1, कं. 2 / 8 व्यवसायः - कं. 1, कं. 2 / ९श्चेति -कं. 1, कं.२। 10 तदित्येव - कं. 1, कं.२। 11 स्वविषये-कं. 1; कं. 2 / 12 बुद्धयो-कं. 1,