________________ टिप्पणपत्रिकाकुसुमोगमाविटीकात्रयोपैतम् / 599 प्रशस्तपादभाष्यम् स्मरणात्, किमयं स्थाणुर्वा पुरुषो वेति संशयोत्पत्तौ शिरःपाण्याविदर्शनात् पुरुष एवायमित्यवधारणज्ञानं प्रत्यक्षनिर्णयः / विषाणमात्रदर्शनाद गौर्गवयो वेति संशयोत्पत्ती सानामात्रदर्शनाद् गोरेवायमित्यवधारणज्ञानमनुमाननिर्णय इति / [218] लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोः संयोगविशेषात् पट्वाभ्यासावरप्रत्ययजनिताच्च संस्काराद् दृष्टश्रुतानुभूतेष्वर्थेषु शेषानुव्यवसायेच्छानुस्मरणद्वेषहेतुरतीतविषया स्मृतिरिति / न्यायकन्दली . निश्चिते न खलु स्थाणावूर्ध्वत्वेन 'विशेरते / विशेरते इति संशेरत इत्यर्थः / यद्यपि सर्वमेव निश्चयात्मकं ज्ञानं निर्णयः, तथापि संशयोत्तरकाल'भाविनो निर्णयत्वेन प्रसिद्धिप्राबल्यात् संशयविरोधीत्युक्तम् - स्वोक्तं संग्रहवाक्यं विवृण्वनिर्णयस्य प्रत्यक्षानमानयोरन्तर्भावं दर्शयति - एतदेव प्रत्यक्षमनुमानं यद्विशेषदर्शनात् संशयविरोध्युत्पद्यते स निर्णय इति / प्रत्यक्षविषये यदवधारणात्मकं ज्ञानं स प्रत्यक्षनिर्णयः / यच्चानुमानविषयेऽवधारणज्ञानं सोऽनुमाननिर्णय इति उपरितनेन ग्रन्थसन्दर्भण 'कथयति / [218] स्मृतिलक्षणां विद्यामाचष्टे - 'लिङ्गदर्शनेच्छेत्यादिना / लिङ्गदर्शनं 'चेच्छा चानुस्मरणं च / आदिशब्देन न्यायसूत्रोक्तानि प्रणिधानादीनि गृह्यन्ते, तान्यपेक्षमाणादात्ममनसोः संयोगविशेषादिति स्मृतिकारणकथनम् / आत्ममनःसंयोगस्य च लिङ्गदर्शनादिसहकारितैव विशेषः, केवलावस्मात्स्मरणानुत्पत्तेः / 'लिङ्गदर्शनादिवत् संस्कारोऽपि [p0] [217] ननु वध्यघातकभावरूपो विरोधः सर्वज्ञानसाधारण एव न व्यतिरेकेण तु बाध्यबाधकभावः संशयनिर्णययोः कोदश इत्यत आह तस्मिन्नुपजायमानसंशयोच्छेदादिति (कं. 256) पुनरुत्पत्तेरित्यर्थः / अत्रवाभियुक्तः पाक्यमाह यचा आहेति (कं. 256) निश्रिते निर्णये सतीत्यर्थः / प्रसिद्धिप्राबल्यादिति (कं. 256) / यथोक्तं विमृश्य पक्षाभ्यामविधारणं निर्णय इति संशयनिर्णययो: विरोधः न गवावादिवदितरेतराभाववत्त्वं बाध्यबाधकभाव इति दर्शयन्नित्यर्थः / 1 नव्यवसायस्मरणेच्छा - व्यो. (620) / 2 विशेरत इति-कं. 1; कं.२। 3 भावित्वेन - कं. 1; क. 2 / ' 4 दर्शयति - जे. 1 / 5 लिङ्गदर्शनेत्यादिना - जे.१, जे. 2, जे. 3 / 6 चेच्छानुस्मरण-कं.१; कं. 2 7 संनमन्ते-कं.१ .2 / 8 नुपपत्तेः-जे.२। 9 दर्शनवत् -कं. 1; कं. 2 /