________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् __ न्यायकन्दली [216] ये तु प्रत्यक्षमेवैकं प्रमाणमिच्छन्तो नानुमानं प्रमाणमिति वदन्ति, ते इदं प्रष्टव्याः, किमेकमेव प्रत्यक्षं स्वलक्षणं प्रमाणं यत्स्वरूपं प्रतीयते ? किं वा सर्वमेव ? न तावदेकमेव प्रमाणम्, अपरस्य तत्तुल्यसामग्रीकस्याप्रामाण्यकारणाभावात् / अथातीतमनागतं च पुरुषान्तरवति सर्वमेव प्रत्यक्षं स्वलक्षणं प्रमाणम् ? कथमिदं 'निश्चीयते ? प्रतीयमानप्रमाणव्यक्तिसजातीयत्वादिति चेत् ? अङ्गीकृतं स्वभावानुमानस्य प्रामाण्यम् / एवमनुमानप्रमाणत्वमपि. विकल्प्य वाच्यम् / कश्च 'प्रत्यक्षमेवैकं प्रमाणमिति प्रतिपाद्यते? न तावत् स्वात्मैव, प्रतिपादकत्वात् / परश्चेत् ? स किं प्रतिपन्नः प्रतिपाद्यते? विप्रतिपन्नो वा ? 'न तावत् प्रतिपन्नः प्रतिपाद्यो प्रतिपन्नस्य प्रतिपादनवयात् / विप्रतिपन्नश्चेत् ? पुरुषान्तरगता विप्रतिपत्तिश्च न 'प्रत्यक्षेण गम्यते / वचनलिङ्गनानमीयते चेत् ? सिद्धं कार्यानुमानस्य प्रामाण्यम् / . अनमानमप्रमाणमिति केन प्रमाणेन साध्यते ? प्रत्यक्षं विधिविषयम्, न कस्यचित्प्रतिषेधे प्रभवति / अनुपलब्ध्या तवव'गम्यते चेत् ? तमुनुपलब्धिलिङ्गकमनुमानं स्यात् / तथा चोक्तं सौगतैः प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः / प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् // इति / | ये'तु प्रत्यक्षम् इति :-ये चार्वाका इत्यर्थः। एवमनुमानेति न तावदनमानं स्वरूपेणाप्रमाणे किन्त्वमुमानाभा सदृष्टान्तात्, तथा 'चानुमानसिद्धिः। पुरुषान्तरगता इति :-विरुद्धा प्रतिपत्तिर्ज्ञानं विप्रतिपत्तिः / •"प्रमाणान्तरसामान्येति :- विवादाध्यस्तं परकीयमतीतानागतं वा प्रत्यक्षं" प्रमाणं, प्रत्यक्षत्वाद् इदानींतनप्रत्यक्षवद् [5] [216] तदेवमधिकसंख्याव्यवच्छेदेन प्रमाणढयं व्याख्यातम् / संप्रति न्यूनसंख्याव्यवच्छत्तुं परमतमाशंकते पे विति (क. 255) अनुमानस्य प्रामाण्यमापादयितुं विकल्पयति इदमिति (कं. 255) / अंगीकृतमिति (कं. 255) यत्प्रत्यक्षं तत्प्रमाणम्, विमतं च प्रत्यक्षमित्येव / स्वलक्षणान्तरस्य प्रामाण्यांगीकारादित्यर्थः / एवमनुमानप्रमाणत्वमपीति (कं. 255) यदेवानुमानाभास स्वलक्षणमप्रमाणतया गृह्यते किं तदेवाप्रमाणमत तज्जातीयमनुमानाभासान्तरमपीत्येवं विकल्प्य प्रागुक्तमेव दूषणं वक्तव्यमित्यर्थः / पुरुषान्तरगता विप्रतिपत्तिरित्युपलक्षणमेतत् / प्रतीयते - जे.१। 2 प्रत्यक्ष प्रमाणं-कं. 1, कं.२; प्रमाणमिति - जे. 2, जे.३। ३न प्रतिपन्नः प्रतिपन्नस्य प्रतिपादनवयात-कं. 1, कं. 2; न तावत् प्रतिपन्नः प्रतिपाद्यो वैयर्थ्यात् -जे. 1, न प्रतिपन्न: प्रतिपायो वैयति - जे. 3: न प्रतिपन्नः प्रतिपाद्यते वयात-। 4 प्रत्यक्षतोऽवगम्यते-जे. 1. 5 अममानं प्रमाण-कं.१ (न) अनुमानं, प्रमाण-कं. 2 / 6 साध्यते-जे. 1; गम्यते-कं. 1, कं. 2 / / 7 यस्तु तु-अ। 8 भासे - अ, ब, क। 9 चानुमानसिद्धिः-अ, ब, क। 10 प्रतिपत्तिज्ञानं -म, ब, क / 11 प्रमाणेत्तर-म. जे. 1, जे. 2, जे. 3 / 12 प्रत्यक्ष स्वा... अ, ब, क /