________________ 596 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली . साध्यवाक्यार्थवादिनस्तु निगमनस्येत्थमर्थवत्त्वं समर्थयन्ति - अन्यदेव घटस्य कृतकत्वमन्यच्छब्दस्य, तत्र यदि नाम घटस्य कृतकत्वमनित्यत्वेन व्याप्तं किमेतावता शब्दगतेनापि तथा 'भवितव्यम् ? इति व्यामह्यतो दर्शितयोरपि लिङ्गस्य पक्षधर्मत्वाविनाभावयोः साध्यप्रतीत्यभावे सति निगमनेन तस्मादिति सर्वनाम्ना सामान्येन प्रवृत्तव्याप्तिग्राहकं प्रमाणमनुस्मार्य शब्दे अनित्यत्वं प्रतिपाद्यते, यस्माद्यत् कृतकं तदनित्यमिति सामान्येन प्रतीतं न विशेषतः, तस्मात् कृतकत्वेनानित्यः शब्द इति / एतस्मिन् पक्षे च प्रकरणसमकालात्ययापदिष्टत्वाभावः पक्ष वचनेनैवोपदय॑ते असत्प्रतिपक्षत्वाबाधितविषयत्वयोः पक्षलक्षणत्वात् / ___ अपरे तु तस्मादिति त्रैरूप्यमेव परामशन्ति 'यस्माद्यत् कृतकं तदनित्यं दृष्टम्, यस्मात् कृतकः शब्दः, यस्माच्च प्रतिपक्षबाधयोरसम्भवस्तस्मात् कृतकत्वादनित्यः शब्दः' इति / उपसंहरति - तस्मादिति / यस्मात् पञ्चस्वेवावयवेषु समग्रस्य साधनसामर्थ्यस्य प्रतीतौ साध्यप्रतीतिः पर्यवस्यति, नापरं किञ्चिदपेक्षते, तस्मात् पञ्चावयवेनैवान्यूनाधिकेन वाक्येन 'स्वनिश्चितस्यार्थस्य प्रतिपादनं क्रियत इति कृत्वा एतत्पञ्चावयवं वाक्यं परार्थानुमानमिति सिद्धं व्यवस्थितम् / [कु०] अन्यदेवेति (कं. 254)- यद्यपि प्रागसतः सत्तासम्बन्धकार्यत्वमेव तथाप्युपाधिभेदगमः कस्यचित्सं [भ] वेदिति भावः / तदिदमुक्तं व्यामुग्धस्येति सामान्येन प्रवृत्तव्याप्तिग्राहकप्रमाणमनुस्मायेंति (कं. 254) अनेन प्रत्याम्नायस्य भेदभ्रमनिवारकत्वं दर्शयति / ननु पक्षवचनस्य कथं कालात्ययापददिष्टत्वाद्यभावो स्यादित्यत आह [अ] सत्प्रतिपक्ष[त्वे]ति (कं. 254) धर्मविशिष्टो हि पक्षो न च बाधयोः विषय [उप]पद्यते-जिज्ञास्यते-इति भावः / उभयपक्षसाधारण्येन मतान्तरमनुस्मृत्य प्रत्याम्नाय व्याचष्टे अपरे स्विति (कं. 254) त्ररूप्यमिति (कं. 254) यां (यं) च रूपोपलक्षणमतः यस्माच्च प्रतिपक्षबाधयोरसम्भव इति (कं. 254) अनेन विरोधः उपलक्षणस्य फलम्, तयोः प्रागुक्तपक्षधर्मतान्तर्भावः सू[च] यनुपसंहरति / परार्थानुमानव्याख्यानमिति शेषः / 1 भाव्यमिति व्यामुह्यत उपर्शितयोरपि - जे. 1, व्यामुह्यते - जे. 3 / 2 वचनेनैव प्रदश्यते -जे. 1 / 3 सुनिश्चिता-जे. 1, जे. 2 /