________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 37 न्यायकन्दली ईश्वरोऽपि बुद्धिगुणत्वादात्मैव, न तु षड्गुणाधिकरणश्चतुर्दशगुणाधिकरणाद् गुणभेदेन भिद्यते, 'मुक्तात्मभिर्व्यभिचारात् / [टि०] ईश्वरस्यातिरिक्तद्रव्यचर्चा। 1 नन् तमोद्रव्याभावेऽपि ईश्वराभिधानं दशमं द्रव्यमस्तीत्यत आह ईश्वरोऽपि इति / एतेन चानुमानं सूचितम्, ईश्वरः आत्मा, बुद्धिमत्त्वात्, अस्मदाद्यात्मवत् / तत्र ईश्वर: आत्मा न भवति / चतुर्दशगुणानधिकरणत्वात्, आकाशवद इत्यतमानेन सत्प्रतिपक्षतामाशङ्कयाह मुक्तात्मभिर्व्यभिचाराद इति -- व्यभिचारवारणार्थं सर्वज्ञ चतर्दशगुणानधिकरणत्वाद् इति हेतौ 'विशेषिते तु दृष्टान्ते विशेषणस्य वैयर्थ्यं स्यात् / षड्गुणाधिकरणत्वं त्वीश्वरस्य इच्छाप्रयत्नयोद्धावेवान्तर्भावात् / [पं०] यद्युक्तयुक्त्या तमो न द्रव्यं तदेश्वरो दशमं द्रव्यं स्यादित्याह - ईश्वरोऽपि बुद्धिगुणत्वादात्मैवेति / षड्गुणाधिकारेति - बुद्धिसंख्यापरिमाणपृथक् [त्व] संयोगवियोगाः षड्गुणा ईश्वरस्य / इच्छाप्रयत्नयोः बुद्धावेवान्तर्भावात् / चतुर्दशगुणाधिकरणादिति - संख्यापरिमाणपृथक्त्वसंयोगविभागबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नसंस्कारधर्माधर्मलक्षणचतुर्दशगुणाधारात् / श्रीधरः प्राह मुक्तात्मभिर्व्यभिचरादिति - बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नसंस्कारधर्माधर्माख्यानां नवानां विशेषगणानां मुक्तात्मसु अभावाद् द्रव्यान्त रत्वप्रसंग: स्यादिति तात्पर्यार्थः / 1 नापह्नवमर्हति / तत्रारोपवदभावग्रहणेऽपि सामर्थ्य समानम् / आलोकाभावतमोवादिनाऽपि रूपारोप एष्टव्यः, 'नीलं तमः' इति व्यवहारसिद्धये। एवं स्थिते अभावग्रहणेप्यारोपेऽपि आलोकविरहिणश्चक्षुषः सामर्थ्यद्वयकल्पनाद् वाव] रमारोपे एव सामर्थ्यमेकं कल्प्यताम् / न चालोकाभावग्रहणे आलोकापेक्षा ग्राह्य विरोधादयुक्तेति चेत्, सत्यमेतत् / यद्यालोकाभावस्य द्रवस्य [द्रव्यस्य] प्रत्यक्षग्राह्यत्वं निश्चितम्, तदेवाद्यापि सन्दिह्यते। तमःप्रतीतिस्त्व (स्व)रूपारोपेणापि संग[स्य ] म्यते / ननु यद्यालोकाभावो न प्रत्यक्ष: तहि विस्फारितचक्षुषो नात्रापवरके आलोक इति तडिति [झडिति ? भडिति] व्यवहारः कथमिति चेत् नरयं प्राचीति वदनुमान तडित्य [झडित्ये] अनुमिति भाडित्यो * [तडित्यो] पपत्ते / अनुमानं न विषयानुपललब्धिलिङ्गकं सम्भवत्येव / नत्वारोप्ये रूपे वाऽऽरोपाधिकरणे वा अव्याप्रियमाणं चक्षुः कथमारोपोपकरणमिति चेत् ? कोऽयमारोपव्यतिरेकेण व्यापारो (णा)नाम यदि तावद् ग्रहणं स्मरणं रोप्यस्य तावदनुपपन्नं उभयथाप्यारोपाभावप्रसङ्गात् / न हि तत्र[असंसृष्टत] या ? स्मृतं वा अधिकर[ण] विविक्ततया गृहीतं वा आरोपयितुं शक्यते, अधिकरणेऽपि व्यापार [त] त्सम्बन्धमानं न तु ग्रहणं, तस्याप्यारोपात् प्रागारोप्य-विवेकेन ग्रहणे आरोपानुपपत्तिरेव / अविविक्तग्रहणं चारोप एव तस्मादारोग्यविषयसंस्कारोबोधे अधिकरणसन्निकर्षे च असंसृष्टतया स्मर्तव्ये संसृष्टतयाऽनुभव आरोप इति युक्तमुत्पश्यामः / / ननु विवेकाविवेकपरिहाण्या[न्या] निर्विकल्पकान्यतराग्रहे सादृश्यस्यानुपलब्धे कथं संस्कारोबोध इति चेत् स्वप्नज्ञानविशेषवददृष्टादेव संस्कारोबोधोपपत्तेः / इह वा दिक्करणं दिग्देशो वा, आकाशदेशो वा चक्षुषा सन्निकृष्यत एव / आलोकाभावग्रहणवादिनामप्यधिकरणसिद्धिरेतादृश्येव / अदृष्टसामर्थ्य च कल्पनीयम् / आलोकाभावे शौक्ल्याभावस्य सादृश्यस्य निमित्तस्य नीलपीताद्यनेकारोपसाधारण्ये नीलान्त [नीलिम्न] एवारोपाय यदाहुस्तएव स्तदेव / आरोपे सति निमित्तानुसरणमदृष्टादिकं चात्र निमित्तमिति / एतेन नालं तम इति सामानाधिकरण्यमप्यविरुद्धमिति द्रष्टव्यम् / 1 मुक्तात्मना-जे. 1; जे. 3 / 2 युद्धिमत्वात्-अ, 3 भवति-अ, ब, 4 विशेषितेति-अ, ब; 5 अनुभवे___इति सप्तमी।