________________ 36 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम न्यायकन्दली [19] तत्र चालोकाभावव्यञ्जनीयरूपविशेषे तमस्यालोकानपेक्षस्यैव चक्षुषः सामर्थ्यम्, तद्भावभावित्वात् यथालोकाभाव एव त्वन्मते / नन्वेवं तर्हि सूत्रविरोधः ? "द्रव्यगुणकर्मनिष्पत्तिवैधाद्धाभावस्तमः" इति / न विरोधः, भाऽभावे सति तमसः प्रतीते भावस्तम इत्युक्तम् / [टि०] [19] तद्भावभावित्वाद् इति -आलोकानपेक्षचक्षुः सद्भावे तमः प्रतीतेर्भावात् तमोद्रव्यत्वनिषेधानुमानं. चेदम्, तमो द्रव्यं न भवति, तेजोद्रव्यान्यत्वे सति आलोकानपेक्षचक्षुर्ग्राह्यत्वाद् आलोकाभाववत् / [पं०] [19] 'अत्र चालोकाभावावव्यञ्जनीयरूपविशेषे तमसि आलोकनपेक्षस्यैव चक्षुषः सामर्थ्य तद्भावभावित्वादिति- कोऽर्थः ? आलोकाभावभावित्वादित्यर्थः / अयमत्र वाक्यार्थः- यद्ग्रहे हि यदपेक्षं चक्षुषस्तदभावग्रहेऽपि तदपेक्षत इति वृद्धाः / ततो यथा हि घटग्रहणे चक्षुरा लोकमपेक्षते, एवं घटाभावग्रहणेऽपि अपेक्ष्यते / एवमालोकाभावव्यंग्यं तमः / कर्मभूतमालोकाभावसहकृतमेव चक्षुः कर्तृभूतं पश्यति / यथा आलोकाभावे एव त्वत्पंक्षे भाऽभावस्तम इति वादिनः / पक्षे तमोद्रव्यनिषेद्धानुमानं चेदमिह वाच्यम् : तमो द्रव्यं न भवति / तेजोद्रव्यान्धत्वे सति, आलोकानपेक्षचक्षुर्ग्राह्यत्वादालोकाभावात् / द्रव्यगुणकर्मनिष्पत्तिवैधाद्भाऽभावस्तम इति सूत्रम् / अस्यायमर्थः। द्रव्यगुणकर्मणां निष्पत्तिव्यगुणकर्मनिष्पत्तिस्तस्या वैधर्म्यम्, तस्मात् द्रव्यगुणकर्मनिष्पत्तिवैधात् / द्रव्यगुणकर्माणि हि समवायिकारणादिभ्यः उत्पद्यन्ते / अभावस्तु न तथा। अत्र भाऽभावे सति तमसः प्रतीते ऽभावस्तम इत्युक्तमिति / कार्ये तमोलक्षणे कारणं भाऽभावे सतीत्युपर्यत इति भाऽभावस्तम इदं सूत्रम् / न पुनर्मुख्यतया तमसोऽभावरूपत्वस्यापनपरमिति श्रीधराभिप्रायः / [कु०] दीर्घत्वादिगुणप्रतीतिमन्यथोपपादयति अत एवेति (कं. 9.27) / अभिमानो भ्रमः / अभावपक्षे चेति (कं. ९.२८)-च शब्दः पूर्वं तमसि गृह्यमाणे चे [वे] द्युक्त इषणसमुच्यये सुखाभावे दुःखारोपवत् संयोगाभावे विभागारोपवदभावेऽपि भावधर्मारोपे न विरोध इति चेत्; विरोधः, दुःखविभागौ हि न[ना] भावधर्मतयाऽरोप्येते किन्तु भावतयैव / इह तु दीर्घत्वह्रस्वत्वादयोऽभावधर्मतयेति विशेषः / उक्तेर्थेऽभियुक्तं वाक्यं प्रमाणयति न चेति (कं. 9.28) / चोऽवधारणे। [अ]भावस्य तमः शब्दवाच्यत्वं वृद्धानां प्रामाणिकानां नैव संमतं कुत इत्यत आह पुराणे छायाया भूगुणत्वेन श्रवणात् / को गुणो भुव इत्यत उक्तं कायॆमित्येवमिति (कं. 10.1) / आरोपितो नीलिमा छायेति पुराणप्रसिद्धेस्तमसश्च तत्तुल्ययोगक्षेमत्वादित्यर्थः। अभावे भावधर्माध्यारोपस्य दुरुपपादत्वेऽभियुक्तं वाक्यं दूरेति (कं. 10.2) / दूरे प्रदीपादौ महती, आसन्ने वाऽल्पा, चलतीति चलने [न] चलतीत्यचला इत्येवं देहादिमनुवर्तमाना भावरूपत्वमन्तरेण नोपपद्यत इत्यर्थः। भावाभावयोरत्यन्तर्वसादृश्याव्यारोपस्य दुरुपपादत्वमाह दुरुपपादश्चेति (कं 10.3) / कर्मप्रत्ययमन्यथोपपादयति चलतीति (कं. 10.3) / पूर्वारोपो देशाद्देशान्तरारोप इत्यर्थः / एवमिति (कं.१०.४) आरोपदेशपरत्वापरत्वादिभिरित्यर्थः / [19] नन्विदं रजतमित्याद्यारोपेषु आलोकसहकृतस्यैव चक्षुषः सामर्थ्यावधारणं तरहे = [तहिं] कथं चक्षुषा रूपमारोप्यते ? न च मानसोऽयमारोप इति वाच्यं, मनसो बहिरस्वातन्त्र्यात्, अन्धानां तमः प्रत्यवानुदयाच्च इत्यत आह - अत्र चेति / अयमभिसन्धिः, आलोकसहकृतस्यैव चक्षुषः साम[N ], तमःप्रतीतिस्तावत् सर्वजनप्रसिद्धा 1 त्वत्पक्षे–जे. 1; जे. 3 / 2 प्रतीतेर्भावे भावात्-अ, ब; 3 तत्र-कं.। 4 तत्र च–कं. 1 /