________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् न्यायकन्दली न च भासामभावस्य तमस्त्वं वृद्धसम्मतम् / छायायाः काष्र्ण्यमित्येवं पुराणे भूगुणश्रुतेः // दूरासन्न'प्रदीपादेर्महदल्पचलाचला। देहानत्तिनी छाया न वस्तुत्वाद्विना भवेत् // इति / दुरुपपादश्च क्वचिच्छायायां कृष्णसर्पभ्रमः, चलतिप्रत्ययोऽपि गच्छत्या'वरक द्रव्ये यत्र यत्र तेजसोऽभावस्तत्र तत्र रूपोपलब्धिकृतः / एवं परत्वादयोऽप्यन्यथासिद्धाः / [टि०] वाच्यम् / “आरोपस्यैवानुपपद्यमानत्वेनासिद्धत्वादिति यत्किञ्चिदेतत् / न च भासाम् इति - छायायाः काष्र्ण्यमित्याद्युल्ले खेन पुराणे तमसो 'भूगुणत्वं प्रतिपादितम् / अत्र हि छायाशब्देनारोपितं सारूप्यमुच्यते / काष्र्ण्यमित्यनेन च नीललक्षणो विशेषः / अन्यथा तु छायाकाष्र्ण्यशब्दयो स्तुल्याभिधेयतायां सहप्रयोगो न स्यात् / दूरासन्नेति - दूरवर्तिप्रदीपस्य महती छाया, 'आसन्नवर्तिप्रदीपस्य तु स्वल्पा। एवं चले प्रदीपे चला निश्चले त्वचलेति सोपस्करं ज्ञेयम् / अभावपक्षे च भावेत्यादिना धर्मारोपासम्भवः उक्तः / इदानीं धारोपासम्भवमाह दुरुपपादश्व इति / [पं०] भावः / भावधर्माध्यारोप इति - भावधर्मा दीर्घह्रस्वादयः। छायायाः कार्यमित्येवं पुराणे भूगुणश्रुतेरितिछायायाः पुराणे भूगुणश्रुतेः / केनोल्लेखेन कार्यमिति कार्ण्य हि भ गुण एव यतः / अत्र छायाशब्देनारोपितं रूपमुच्यते / काष्र्ण्यमित्यनेन च नीललक्षणो विशेष इति हृदयम् / गच्छतीति - गच्छति सति, आवारके द्रव्ये इतिभासामवरणकारिणि करिकरभादौ / अन्यथासिद्धा इति- छायाया द्रव्यतां विनापि सिद्धाः / [कु०] गृह्यमाण इति (कं. 9.21) ग्रहणा[ण] भवनस्मरणोपलक्षणाद् गृह्यमाण इत्यर्थः / संगुक्तविशेषणतया सम्बन्धप्रतीयमानविशेषणतया तदन्यप्रतिषेधमुखेनेत्यर्थः। नान्यस्य ग्रहणमिति (कं. 9.21) अन्यस्याधिकरणस्य / न च प्र[ग्रा ह्यातियोगि तत्स्मरणमिति शेषः / न च दिवाप्रतिसन्धानमकृत्वा रात्रिप्रतिसन्धानेन क्र[त] मो ग्रहणा[त्] दिवातनालोकस्मरणमर्थसिद्धमिति साम्प्रतं तथा प्रतीत्यभावात् नास्ति नियमः तमोग्रहणे रात्रिरवश्यं प्रतिसन्धातव्येति / न च "प्रतिषेधमुखेनेति (कं. 9.22) तम् अर्थान्तर्भावेन प्रलयविनाशावसानवद् वाक्यार्थे पदवचनादयमस्त्येवेति घेत् न दृष्टान्तवैषम्यात् / इह तावत् प्रलय इति प्रशब्द: लये प्रतिष्ठते इत्यत्रैव नअर्थः / विनाश इत्यत्र तु 'नश' अदर्शने इति आचार्येणैव नअर्थे धा ? नुस्मृतः / एवं षोते [खोते? ] कर्मणीत्यपि, न ह हि तमः शब्दे तथेति / बहिर्मुखतयेति (कं. 9.23) अनात्मधर्मतयेत्यर्थः / ___ स्वमतमुपसंहरति तस्मादिति (कं. 9.23) / ननु द्रव्यासमवायादगुणस्य कथं रूपविशेषेषितेतीमामाशङ्कामारापाङ्गीकारेण निरस्यन्नेव तमश्छाये विविनक्ति "अत्यन्तेति (कं. 9.24) / नन यदि तेजोभावे सति नीलितत्वारोप: कथं तहि मध्यन्दिनवर्तिगगनाभोगव्यापकनीलिमप्रतीतिरित्यत आह दिवा चेति (कं. 9.25) / एवमद्रव्यतया निर्णीते 1 प्रदेशादि-कं. 1; कं. 2 / 2 आवारक-जे. 1; जे. 3 / 3 ऽसन्निधिः-जे. 1; जे. 3 / 4 आरोप्य - ब,ब,क५ -खन अ; 6 गुणत्वम् अ; 7 रूप ड; 8 स्तुल्यतायां अ; 9 आसन्नवर्तिप्रदीपस्य महती छायेत्यधिक-अब पुस्तकयोः; 10 धर्मारोपा-अ, ब, 11 अ-पुस्तकेऽत्र पत्रं नष्टम् / 12 वृस्यमाण इति हस्तलिखितपुस्तके। 13 प्रतिषेधमुखः- कं. 1 / 14 अत्यन्तम-कं. 1 /