________________ 34 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली 'प्रतिभासायोगात्, मध्यन्दिनेऽपि दूरगगनाभोगव्यापिनो नीलिम्नश्च प्रतीतेः किञ्च गृह्यमाणे प्रतियोगिनि संयुक्तविशेषणतया 'तदन्यप्रतिषेधमुखेनाभावो गृह्यते, न स्वतन्त्रः / तमसि च गृह्यमाणे नान्यस्य ग्रहणमस्ति। न च प्रतिषेधमुखः प्रत्ययः। तस्मान्नाभावोऽयम्। न चालोकादर्शनमात्रमेवैतत्, बहिर्मुखतया तम इति, छायेति च कृष्णाकारप्रतिभासनात् / तस्माद्रूपविशेषोऽयमत्यन्तं तेजोभावे सति सर्वतः समारोपितस्तम इति प्रतीयते / दिवा चोवं नयनगोलकस्य नीलिमाऽवभासते इति वक्ष्यामः। यदा तु नियतदेशाधिकरणो भासामभावस्तदा तावद्देशसमारोपिते नीलिम्नि छायेत्यवगमः / अत एव दीर्घा, ह्रस्वा, महती, अल्पीयसी छायेत्यभिमानः, तद्देशव्यापिनो नीलिम्नः प्रतीतेः अभावपक्षे च भावधर्माध्यारोपोऽपि दुरुपपादः / तदुक्तम् [टि०] मध्यन्दिने गगनव्यापि नीलिमरूपं तमः प्रतीयते इत्यर्थः / एतच्च स्व सिद्धान्तानपेक्षयवोक्तम् गगननीलिम्नो 'नयनगोलकगतनीलिमत्वेन स्वयमभ्युपगमात् / किञ्च गृह्यमाण इति / प्रतियोगिनि प्रतिषेध्ये प्रतिषेधाधिकरणे वा स्मृत्या प्रत्यक्षेण वा गृह्यमाणे चक्षुः संयुक्तभूतलादिविशेषणतया अघटं भूतलमित्याद्युल्लेखेनाभावो गृह्यते। तमसि च इतिअन्यस्येति प्रतिषेधस्य प्रतिषेधाधिकरणस्य च / एतावता ग्रन्येन ज्ञेयरूपतया निराकृत्य इदानीं ज्ञानरूपतया मिराचष्टे न चालोकदर्शनेति / अदर्शनं हि ज्ञानाभावः, स च यथा घटमहं न जानामीत्यन्तरुल्लिखति तथा चालोकमहं न जानामीत्यत्राप्यन्तर्मुखतयैवोल्लिखेन्न' पुनरिदं तम इति बहिर्मुखतया कृष्णाकारत्वेन प्रतिभासेत इत्येतदाह बहिर्मुखतया इति / ननु भासामभावे तमः समारोपाभ्युपगमपक्षेऽतिललाटन्तपे तपने गगनतलावलम्बी नीलिमा कथमवभासते इत्याशक्याह दिवा चोर्ध्वम् इति / अभावपक्षे च इति -सारूप्यग्रहणं ह्यारोपनिबन्धनम् / १°न च भावाभावयोः सारूप्यमस्तीति कथमालोकाभावे नीलत्वस्य भावधर्मस्याध्यारोप इत्यर्थः / शुक्लभा"स्वररूपविरोधित्वं सारूप्यं निरूप्यत इति चेत, न; शुक्लभास्वरविरोधिते नीलत्ववत् रक्तत्वस्याप्यारोपप्रसङ्गात् / न चारोपे सति निमित्तानुसरणमिति [कु०] एवं तावन्नवैवेति सिद्धं तथापि किमिदं स्यादिति जिज्ञासून् प्रति सुहृत्तया तमःस्वरूपं विवेक्तुकामः परमतं दूषयितुमनुवदति तोति (कं. 9.14) / परे ह्येवं मेनिरे उक्तरीत्यैव द्रव्यस्य सामान्यविशेषसमवायानां व्यक्त्याश्रय सम्बन्धिभिः सहोपलब्धनियतत्वात् कर्म [ण]श्व संयोगविभागासमवायिकारणत्वादनेवंभूतत्वेन तेभ्यो व्यावृत्तस्य द्रव्येषु समवायाभावाद् गुणस्य भावानुप्रवेश एव न युक्तः / तत्र वाऽन्बयव्यतिरेकाभ्यामालोकाभावत्वनिश्चय इति / नन शंखे पीतिमारोपवदभावे नीलत्वारोपे को विरोधः, अयमस्ति विरोधः, आरोपितेनैव रूपेण तमोबुद्धिव्यपदेशसिद्धावभावप्रतीति कल्पनायां कल्पनागौरवमिति / ननु गुणारोपः सो गुणिनि प्रत्यक्षतः प्रतीयमाने तद्गुणाभिभवेन दृष्टः शङ्खादौ, इहालोकाभावत्वमप्रतीयतस्तव कथमित्यत आह मध्यन्दिने इति (कं. 9.19) / 1 प्रतिभासनायोगात-जे. 1; जे. 3 / 2 नीलिम्नश्च प्रतीते:-कं. 1; कं. 2 / 3 अन्य-जे.१; जे. 3 / 4 नीलिमावभास-कं. 1; कं. 2 / 5 तद्देश-कं. 1; कं. 3 / 6 सिद्धान्त निरपेक्ष-अ, ब; 7 गमन-अ, 8 वयन-अ, ब; 9 खेत-ड; 10 न च नं न च-अ, ब, 11 भावस्वरूप-अ, ब; 12 विरोधितेन-ड; 13 सन्निमित्ता-अ, ब ; 14 कल्पनायां कल्पनायां हस्तलिखितपुस्तके /