________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् न्यायकन्दली अदृष्टव्यापाराभावात् 'स्पर्शवत्कार्यद्रव्यानारम्भका इति चेत? रूपवन्तो वायुपरमाणवोऽदृष्टव्यापारवैगुण्याद्रूपवत्कार्यं नारभन्त इति किं न कल्प्येत, किं वा न कल्पित'मेतदेक जातीयादेव परमाणोरदृष्टोपग्रहाच्चतुर्धा कार्याणि जायन्त इति / काय्यकसमधिगम्याः परमाणवो यथाकार्यमुन्नीयन्ते, न तद्विलक्षणाः, प्रमाणाभावादिति चेत् ? एवं तहि तामसाः परमाणवोऽप्य'स्पर्शवन्तः कल्पनीयाः, तादृशाश्च कथं तमोद्रव्यमारभेरन् ? अस्पर्शवत्त्वस्य कार्यद्रव्यानारम्भकत्वेनाव्यभिचारोपलम्भात् / कार्यदर्शनात्तदनुगुणं कारणं कल्प्यते, न तु कारण वैगुण्येन दृष्ट कार्यविपर्यासो 'युज्यते जगद्वैचित्र्यस्याप्यपह्नवप्रसङ्गादिति चेत्, न वयमन्धकारस्य प्रत्यर्थिनः, किन्त्वारम्भानुपपत्ते!लिममात्रप्रतीतेश्च द्रव्यमिदं न भवतीति ब्रूमः / तहि भासामभाव एवायं 'प्रतीयेत? न, तस्य नीलाकारेण [टि०] इत्यनेनानुद्भूतस्पर्शप्रदीपप्रभासाम्यं निरस्तम् / तस्य हि प्रदीपलिकादौ स्पर्शोपलम्भोऽस्ति, अस्य तु क्वचिदपि नास्तीत्यर्थः / अस्पर्शवत्त्वस्य इत्यनेनानुमानं सूचितम् / तमो न कार्यद्रव्यम्, स्पर्शरहितत्वात्, मनोवत् / न चवमकार्यद्रव्यत्वापत्तिः बाह्येन्द्रियग्राह्यत्वाद् घटवत् / तर्हि वायुरकार्यद्रव्यम्, सर्वदारूपरहितत्वात् "[मनोवत् / अत्र च सर्वदेति तदात्वोत्पन्नद्रव्यव्यवच्छेदार्थम्, उत्पत्त्य"नन्तरं द्वितीयक्षणे १२एव रूपसद्भावात् / नैवम्, स्पर्शवत्त्वान्यथा [नुपपत्तेः] कार्यद्रव्यत्व"सिद्धिः / तमोरूपस्य त्वन्यथा प्युपपत्तेः / मध्यन्दिनेऽपि इति / आलोकसद्भावेऽपि [कुo] (कं. 9.6) वातप्रतिघातो हेतुः / "अप्रतिप्रभाविगमित्यप्रतीयमानं खण्डावयव [वि त्वे वा हेतुः / स्पर्शवत्कार्यविरहेऽपि तेजः परमाणनां स्पर्शवती पृथिवीति दर्शनाद्विशेषणं क्वचिदपीति (कं. 9.9) / तेजसि क्वचिददष्टमित्यर्थः / उपाधिमाशङ्कय प्रतिबंद्यापरिहरति अदृष्टव्यापारादिति (कं. 9.9) / चतुर्धा गन्धरसरूपस्पर्शवती पृथिवीति एकका एव येनाप्तेजोवायवप्रतिबंदीमोचनमाशय तुल्यन्यायतया परिहरति कार्यकेति (कं. 9.13) / स्पर्शरहिता वा इति पक्ष दूषयति "तादृशाश्चेति / दृढप्रमाणावगते तमसि कार्ये स्पर्शवत्त्वानारम्भकत्वयोर्व्याप्तिर्भ [भि]द्यतां पार्थिवत्वलोहलेख्यावयोर्वक्ष इवेति शङ्कते कार्यदर्शनादिति (कं. 9.16) / इह दृढप्रमाणं तमसः कार्यद्रव्यत्वविषयं वा तमोमात्रविषयं वा ? आधेऽसिद्धिरित्याती [ना] ? ......भानुपपत्तेतिरिति (कं. 9.17) / द्रव्यस्य कार्यत्त्वप्रमाणं स्पशंवत्त्वे सति महत्त्वं तदनुपपत्तेरित्यर्थः / न द्वितीय इत्याह नीलिममात्रप्रतीतेरिति (कं. 9.17) / ततश्च द्रव्यत्वासिद्धिरित्यभिप्रायः / 1 स्पर्शवद्र्ध्या -कं. 1; कं. 2 / 2 मेकजातीयादेव-जे. 1; जे. 3 / 3 स्पर्शवन्तः कथं-कं. 1; कं. 2 / 4 वैकल्येन -जे. 1; जे. 2 / 5 युज्यते इति चेत् - कं. 1; कं. 2 / 6 आरम्भकापपत्ते- कं. 1; कं. 2 / 7 प्रतीयते -जे. 1; जे. 2 / 8 सामान्यं-अ, ब. 9 बाौकेन्द्रिय-अ, ब, क; 10 [ ] एतच्चिह्नान्तर्गत: पाठः 'ड' पुस्तके नास्ति / 11 नन्तर-अ, ब, क; 12 एक-अ, ब, क; 13 सिद्धे-ड, 14 प्युपपत्तेः-अ, ब; 15 प्रविभागमप्रतिघातिप्रभामण्डलम् - कं. 1 / 16 क्वचित् -कं. 1 / 17 प्रतीकमिदं कन्दल्यां नास्ति / 18 आरम्भकामुपपत्तेः इति कन्दल्याम् / भानुपपत्तेतिति हस्तलिखितपुस्तके / /