________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली [18] तमो नाम रूप-सङ्घया-परिमाण-पृथक्त्व-परत्वापरत्व-संयोग-विभागपरत्वा परत्ववेगवद् द्रव्यान्तरमस्तीति चेत् ? अत्र कश्चिदाह-यदि तमो द्रव्यम्, रूपवद्रव्यस्य स्पर्शाव्यभिचारात् 'स्पर्शवद्व्यस्य महतः प्रतिघात धर्मकत्वात् तमसि सञ्चरतः प्रतिबन्धः स्यात्, महान्धकारे च भूगोलकस्येव तदवयवभूतानि खण्डावयविद्रव्याणि प्रतोयेरनिति / तदयुक्तम्, यथा प्रदीपानिर्गतैरवयवैरदृष्टवशादनुभूतस्पर्शमनिबिडावयवमप्रतीयमानखण्डावयविद्रव्यप्रविभागमप्रतिघातिप्रभामण्डलगहव्यापकमारभ्यते, तथा तमःपरमाणुभिरपि तमो द्रव्यम् / तस्मादन्यथा समाधीयते / तमःपरमाणवः स्पर्शवन्तस्तद्रहिता वा ? न तावत् स्पर्शवन्तः, स्पर्शवतस्त कार्यद्रव्यस्य क्वचिदप्यनुपलम्भात् / [टि०] [18] [तमसोऽतिरिक्तद्रव्यचर्चा / ] ___ मण्डनाचार्या दीनाशङ्कते तमो नाम इति / तमः शब्दाभिधेयं द्रव्यं ‘गुणवत्त्वात्, घटवदित्यनुमानम् / यदि तमो द्रव्यम इति - यद्रपवत्तत्स्पर्शवदिति व्याप्तिः / स्पर्शवत्त वायवन्नीरूपमिति / यथा प्रदीपाद इति यत्तु प्रदीपप्रभयापि सन्तापविशेषः स समासन्नप्रदीपरश्मीनामेव दूरवतिनि प्रदीपे प्रभा सम्बद्धस्या धस्योष्ण"स्पर्शाप्रतीतेः / न तु तमस्तावन्नित्यं [द्रव्यम्, नित्य] द्रव्यस्य परमाणुरूपत्वे व्योमतुल्यत्वे वा ग्राह्यत्वं न स्यात्, किन्तु द्वषणुकादिकमारब्धम् / तथा च तमः परमाण्वभ्युपगमे सत्याह तमः परमाणवः इति / क्वचिदप्यनुपलम्भाद् [पं०] सम्बन्धो गृह्यते / यथाऽघट भूतलम् / अत्र हि भूतलं विशेष्यम्, अभावस्तु विशेषणम् / तस्माद्युक्तमुक्तं संयुक्तविशेषणतयेति / तदन्यप्रतिषेधमुखेनेति-तस्माद् भूतलादन्यो घटस्तनिषेधद्वारेण / अन्यस्येति प्रतियोगिनः / न च प्रतिषेधमुखः प्रत्यय इति किं तु विमुख इत्यर्थः / सर्वतः समारोपितस्तम इति / प्रतीयत इति-सर्वत्रैव प्रथिव्यां समारोपितो रूपविशेषो, न तु तात्त्विक किञ्चित्तमोऽस्ति / यन्नीलत्वं नीलोत्पलादौ दृष्टं तत्सर्वत्र समारोप्यत इत्यर्थः / स्वमते मध्यंदिनादिदोषोपगमायाह-दिवा चोवं नयनगोलकस्य नीलिमावभासतं इति-नीलिमा समारोपित इति द्रष्टव्यम् / दिवा आकाशावलोकनकुतूहलेन नायना रश्मयः प्रस्रुताः / प्रसृत्य च परावृत्ताः स्वनयनगोलकनीलिमानमेव गृह्णन्तीति [कु०] [18] ननु तव-बाह्यप्रतीत्यप्रतीत्योनिषेधो नोपपद्यते तत्कथं नवैवेति ? मैवम्, द्रव्यतया प्रमिते सुवर्णादौ नवबाह्यत्वनिषेधात् नवबाह्यता (तत्) प्रतीते तमःसादृश्यादौ द्रव्यत्वनिषेधात् तदधिकस्य बुध्यनारोहेण शङ्का नस्ये(स्या)द् तया तदुत्तरस्याप्यवचनीयत्वादिति प्रतिबन्धः स्यादिति (कं. 9.4) / अयमभिसन्धिः-तमस्तावद्वयापकद्रव्यं न भवति कादाचित्कत्वविरोधात् नाप्यगुणः प्रत्यक्षत्वात् कादाचित्कत्वाच्च / परिशेषान्मध्यमपरिमाणं द्रव्यमिति वक्तव्यम् / एवं व्यवस्थिते प्रयोगः तमो मध्यमपरिमाणद्रव्यं न भवति अप्रतिघातकत्वादप्रतीयमानखण्डावयवित्वाच्च अभाववत् / तदिदमेकदेशिमतं व्यभिचारेण दूषयति "नैतदिति (कं. 9.5) / अनुद्भूतस्पर्शमनिबिडावयवमिति 1 °विभागवद्-कं. 1; कं. 2 / 2 स्पर्शद्रव्यस्य-जे. 1; जे. 3 / 3 धर्मत्वात-कं. 1; कं. 2 / 4 मण्डलमारभ्यते-कं. 1; कं. 2 / 5 कार्य्यस्य-कं. 1; कं. 2 / 6 °दनुपलम्भात् -कं. 1; कं. 2 / 7 दीनामा-अ. 8 गुणवत्स्यात्-अ, ब, क; 9 वन्नारूप-अ, ब, क. 10 सम्बद्धस्योष्ण-ड. 11 स्पर्शप्रतीते:-अ, ब, क; 12 [ ] एतच्चिह्नान्तर्गतः पाठः 'अ' - पुस्तके नास्ति / 13 वभास - कं.। 14 तदयुक्तम् - कं. 1 /