________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटोकात्रयोपेतम् 31 न्यायकन्दली इदमेव 'सामान्येनोद्दिष्टानां विशेषसज्ञाभिधानं तन्त्रान्तरे विभाग इति निर्देश इति च कथ्यते / कथमेतदवगतं नवैवेति ? अत आह-तद्वयतिरेकेणेत्यादि / तेभ्यो नवभ्यो व्यतिरेकेण सर्वज्ञेन महर्षिणा सर्वार्थोपदेशाय प्रवृत्तेनान्यस्य दशमस्य संज्ञानभिधानात् / [टि०] यथा देवदत्तयज्ञदत्तविष्णुमित्रास्त्रय एते समायाता इत्युक्ते सङ्ख्या निर्देशस्य स्वरूपप्रत्यायननिष्टत्वादन्यव्यवच्छेदनसामर्थ्याभावे तदर्थमेव कारकागां तथाऽत्रापीति / तद् व्यतिरेकेण इति-द्रव्याणि यावन्त्युक्तानि तावन्त्येव, सर्वज्ञेत्यादिविशिष्टेन महर्षिणा तावतामेव प्रतिपादितत्वात, यथा षडेव रसाः। अथवा नवद्रव्यातिरिक्त द्रव्यमस्तीति वाक्यमनर्थकम्, 'प्रमाणानुपलभ्यमानार्थत्वात्, "शशविषाणमस्ती तिवाक्यवद् इति प्रमाणम् / [पं०] शेषः / तत्कार्यद्रव्यस्येति = परमाणकार्यस्य तमस इत्यर्थः। क्वचिदनुपलम्भादिति - यथा दीपकलिकादौ स्पर्शोपलम्भस्तथाऽस्य तमसो न क्वचिदपि स्पर्शोपलम्भः / “स्पर्शवत्कार्यद्रव्यानारम्भका इति अत्र स्पर्शवतोऽपि तमोऽणवः कर्तृपदं द्रष्टव्यम् / स्पर्शवत्कार्यद्रव्यानारम्भका इति चेदिति अस्मात्पुरस्तीत्यध्याहार्यम् / - रूपवन्तो वायुपरमाणव इति - अस्मात्पुरः किञ्चिदित्यध्याहार्यम् चतुर्धेति - पार्थिवाप्यतैजसवायवभेदेन / द्वितीयविकल्पस्तद्रहिता वेति / तात्पर्येण पर: प्राह कार्यकसमधिगम्येत्यादि। परमाणवो यथाकार्यमन्त्रीयन्त इति - यादृशं कार्य तादृशाः कारणभूता परमाणवोऽनुमीयन्ते, परमाणूनां स्वयमप्रत्यक्षत्वादित्यर्थः / न तद्विलक्षणा इति = न कार्यविलक्षणाः, अस्पर्शवत्कल्पनीया इति भावना। अस्पर्शवत्त्वस्य कार्यद्रव्यानारम्भकत्वेनव्याभिचारोपलम्भादिति मनोऽपि ह्यस्पर्शवत्त्वादेव कार्यद्रव्यानारम्भकम। परवाक्यं कार्यदर्शनादित्यादि / न तु कारणवैगुण्येन द्रष्टकार्य'विपर्यासो युज्यते इति-दष्टकार्यं तमो लक्षणम् / अयमत्र भाव:-विमार्यमाणमपि कारणं कदाचन न सम्यकप्रतीतिमागतम्, यावता च तन्नप्रतीतिमागतं तावतैव किं तत्कार्यस्य दृष्टस्य विपर्यास: स्यात् ? तस्मादेव यदुक्तं कार्य चेदवगम्यते, कि कारणपरीक्षया / कार्य चेन्नावगम्यते किं कारणपरीक्षया / / इति चोद्यार्थः / आरम्भकानुपपत्तेरिति-परमाणुभिरेवमारब्धं च तमो न घटत इत्यर्थः / अयमिति = अन्धकारः . आश्रये इति = घटे / अप्रतियोगिनीति = एकज्ञानसंसगिणि भूतले / ननु प्राप्यकारित्वादिन्द्रियाणामभावेन कः सम्बन्धो, न चासम्बद्धस्य ग्रहणमित्याह संयुक्तविशेषणतयेति चक्षुरश्मिभिः संयुक्तभूतलं तत्र विशेषणीभूतस्याभावस्य संयुक्ताविशेषणतख्यः [कु०] ननु द्रव्यादीनां साधर्म्यवैधर्म्यतत्त्वज्ञानं निःश्रेयसहेतुरित्युक्तम् / अर्थातु ( ? ) दुद्देशश्च कृतः / साधर्म्यवैधर्म्य . . चोपरिष्टाद् वक्ष्येते / तत्र द्रव्याणीत्यादिको ग्रन्थो प्रस्तुत इत्याशङ्कयाह 'इदमेवेति (कं. 8.22) / चेति / वक्ष्यमाणसाधाद्यधिकरणज्ञापकतापदं विशेषसज्ञाभिधानमवश्यं कर्तव्यमिति [वि ] शेषं न सामान्यमिति न्यायेनाधिकरणासिद्धेश्च पूर्वोत्तरप्रकरणे न सङ्गच्छेयातामिति भावः / तत्रैव वृद्धसम्मतिमाह - "तन्त्रान्तर इति (कं. 8.22) / "सर्वार्थोपदेशप्रवृत्तेनेति (कं. 8.24) हेयोपादेयव्यतिरिक्तस्य प्रमाणविष[य]स्य सिद्धौ तदुभयतः प्रतिपादनेन निःश्रेयसहेतुशास्त्रप्रणयनमन्यथानुपपद्यमानं मुनेः सर्वार्थोपदेशाय प्रवृत्तिं गमयतीति भावः / 1 सामान्योद्दिष्टानां-कं. 1; कं. 2 / 2 निर्देशश्च-कं. 1 / 3 तद्व्यतिरेकेण-जे. 1; जे. 3 / 4 अन्यस्य संज्ञानभिधानात्-कं.१; कं.२। 5 कारणकरणं-अ, ब. 6 प्रमाणमु० अ, ब. 7 शरीर-अ, ब. 8 स्पर्शवत् द्रव्यारंभका-कं.। 9 इदमेव-कं.१। 10 तन्त्रान्तरे-कं. 1 / 11 सर्वार्थोपदेशाय प्रवृत्तेन-कं. 1 /