________________ 30 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली उत्तरमाह-तत्रेत्यादि / तेषु द्रव्याविषु मध्ये, द्रव्याणि पृथिव्यादीनि, सामान्यविशेषसज्ञया सामान्यसञ्जया द्रव्यसञ्जया, विशेषसज्ञया प्रत्येकमसाधारणसङ्ख्या पृथिव्यप्तेज'आदिरूपया उक्तानि सूत्रकारेण प्रतिपादितानि / 'किमेतावन्त्याहोस्विदपराण्यपि 'सन्तीत्यत आह नवैवेति / ननु नवानां लक्षणाभिधाने सामर्थ्यादपरेषामभावो 'ज्ञातः, व्यर्थ नवैवेति / न, नवसु लक्षितेषु किमपरेषामसत्त्वादुत सतामप्यनुपयोगित्वान्न लक्षणं कृतमिति संशयो न 'निवर्तेत / लक्षणस्य व्यवहारमात्रसारतया समानासमानजातीयव्यवच्छेदमात्रसाधनत्वेन चान्याभावप्रतिपादनासामर्थ्यात्, तदर्थमवधारणं कृतम्। [ द्रव्यविभागः] [टि०] ननु सामान्यविशेषसञोक्तानां नवत्वविधाने पृथिव्यादीनामपि नवत्वमेव स्यादित्याशङ्कय सामान्यविशेषसञोक्तानि 'नवैवेत्यनुवाद्यविधेयभावमपास्य पृथक् वाक्यतया ब्याचष्टे "किमेतान्येव इत्यादि / द्रव्याणी"त्यनुय नवत्वं विधीयते न तु सामान्यविशेषसञोक्तत्वम्, पृथिव्यादीनामावान्तरभेदेमानेक"त्वात् / समानासमानेतिअवान्तरजात्य"पेक्षया समानजातीयत्वम्, परमार्थतः सर्वेषामसमानजातीयत्वात् / अवधारणं कृतम् इति / [पं०] रूपवदिति संख्यावदिति। एतावता तमसो नवगुणोपेतत्वं दर्शितम् / द्रव्यान्तरमस्तीति = दशमं द्रव्यं तमोऽस्ति / नवसु अन्तर्भावयितुमशक्यत्वात् / पृथिव्यप्तेजस्सु हि स्पर्शरहितत्वात् / वायुमनसोश्च रूपत्वात् / आकाशकाल. दिंगात्मसु त्वनित्यत्वान्नान्तर्भावस्तस्माद्दशमं द्रव्यं तमः / गुणवत्त्वात् / तद्भावे च * विलूनशीर्णा नवव द्रव्याणीति प्रतिज्ञेति चोद्यार्थः / अत्र कश्चिदाहेति - नैयायिको-व्योमशिवो वा। यदि तमो द्रव्यमिति- अतः पुरस्तादित्यध्याहार्यम् / ननु तेजोणुभिः प्रभामण्डलमारभ्यते, ते च दाहात्मका इति तत्कार्येण प्रभामण्डलेनापि दाहात्मकेन भाव्यमित्याहअदृष्टवशादनुद्भूतस्पर्शमिति - अदृष्टो धर्माधर्मों / तथा [तमः] परमाणभिरपि तमो द्रव्यमिति अत्र चारभ्यत इति [कु०] अनुपयोगित्वादिति (कं. 8.19) निःश्रेयसं प्रतीति शेषः / लक्षणस्येति (कं. 8.20) विभागस्य लक्षणसाध्यव्यवहारव्यवस्थित्यधिकरणमात्रप्रतिपादकतयेत्यर्थः / अन्याभावप्रतिपादनासामर्थ्यादिति (कं. 8.21) अनेकत्वेन वाक्यभेदप्रसङ्गादित्यर्थः / 1 तेजस्त्वादिरूपया-कं. 1; कं.२। 2 किमेतानि-जे. 1; जे. 3 / 3 सन्तीत्याह-कं. 1; कं. 2 / 4 ज्ञातव्य:-कं. 1; कं. 2 / 5 अनुपयोगित्वादिति संशयो-जे. 1; जे. 3 / 6 निवत्तंते-जे.१; जे. 3 / 7 सञ्जयोक्तानि-मु. 8 नवेत्यनुवाद्य-अ, ब, क; 9 पृथक्यतया-म; 10 किमेतावन्ति-मु., किमेतानिजे. 1, जे. 3; एवं द्वयेऽपि वर्तते; 11 त्यनुत्पद्य--अ,ब; 12 विधीयते-अ; 13 कत्वा-म; 14 समानेति-अ; 15 °पेक्षया न-अ, ब;