________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 29 / [17] प्रशस्तपादभाष्यम् अथ के द्रव्यादयः पदार्थाः, किञ्च तेषां 'साधर्म्य वैधर्म्यञ्चेति / तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्म मनांसि सामान्यविशेष संज्ञयोक्तानि 'नवैवेति / तद्व्यतिरेकेणान्यस्य सज्ञानभिधानात् / न्यायकन्दली [17] एवं षट्पदार्थज्ञानस्य पुरुषार्थोपायिकत्वं प्रतीत्य तेषां प्रत्येकं भेदज्ञानार्थ परिपच्छति-अथ के 'द्रव्यादयः पदार्था इति / कानि द्रव्याणि? के गुणाः ? कानि काणीत्यादि योजनीयम् / न चावश्यं धम्मिणि ज्ञाते धर्मा ज्ञायन्त इति, तेन "धर्मेष्वाथ पृथक प्रश्नः-किञ्च तेषामित्यादि / अत्रापि "च समुच्चये / [टि०] [17] भेदजिज्ञासार्थम् इति-ननु भेदजि"ज्ञासया ज्ञानार्थं प्रश्नस्य क्रियमाणत्वात्कथं "जिज्ञासार्थमित्युक्तम् ? सत्यम् / जिज्ञासाया ज्ञानावधिकत्वात् जिज्ञासैव ज्ञानमतो जिज्ञासार्थ ज्ञानार्थमित्यर्थः / अथवा जिज्ञा"साया अर्थ विषयमित्यर्थः / [पं०] [17-18] तन्त्रान्तरे इति - न्यायशास्त्र / तमो नाम रूपसंख्येत्यादि तत्र - रूपवत् तमः, श्यामत्वात् / 1 / संख्यावत्तमः, एकद्वयादिस्वरूपेण साक्षाक्रियमाणत्वात / 2 / परिमाणवत्तमः, दीर्घहस्वादिभेदेनोपलंभात / 3 / पृथक्त्ववत्तमः, घटादिभ्यः पदार्थान्तरत्वेनानुभवात् / 4 / संयोगवत्तमः, पूर्वादिदिकभिः (ग्भिः) सहाप्राप्तस्य तस्य प्राप्तिदर्शनात् / 5 / विभागवत्तमः, पूर्वादिदिग्भिः सह प्राप्तस्याप्राप्तिसद्भावात् / 6 / परत्वापरत्ववत्तमः, इदंतमोऽस्मात्परमिदं चापरमिति व्यपदिश्यमानत्वात् / (7)-8 वेगवत्तमः, उदयविकिरणाद्यनुद्धतस्य तस्य शीघ्रगमनसाक्षात्कारात् / 9 / वेगवदिति मतु (प्) प्रत्ययः, स च सर्वत्र संबध्यते / यथा च संबध्यते तथा दर्शितं - [कु०] [17] जिज्ञासार्थमिति (कं. 8.6) ज्ञानोत्पत्तौ जिज्ञासानिवृत्त्यर्थमित्यर्थः / इत्यादि (कं. 8.14) इत्यादिशब्देन के सामान्ये, के विशेषाः, कः समवाय इति लिङ्गवचनयोरानुस्मरणं, तेन कियन्ति द्रव्याणीति सङ्ख्याप्रश्नः सप्रयोजनः / साधम्यंवैधर्म्ययोद्रव्याघव्यतिरेको द्वितीयः प्रश्नो निविषय इत्यत 'आह नावश्यमिति (कं. 8.13) / धर्मतया ज्ञातानामपि धर्मत्वेन ज्ञानाथं द्वितीयः प्रश्न इत्यर्थः / अत्रापीति . (कं. 8.14) न केवलं तश्चेत्यत्र / लक्षणाभिधानसामर्थ्यादिति (कं. 8.18) / लक्षणीयताविभागसामर्थ्यादित्यर्थः / 1 साधम्यं चेति-कि. ता.। 2 मनांसि-च, दे.। 3 सञोक्तानि-व्यो.; कि.; ता; दे.। 4 नवैव-कि. ता. दे. व्यो.। 5 तद्व्यतिरेकेण सज्ञान्तरानभिधानात्-व्यो.कि.दे.; तद्व्यतिरेकेण सज्ञानभिधानात्-ता. / 6 पुरुषार्थोपायत्वं-कं. 1; कं. 2 / 7 भेदजिज्ञासाथ-कं. 1; कं. 2 / 8 द्रव्यादय इति -- कं.१; कं. 2 / 9 नावश्यं-कं. 1; कं. 2 / 10 धर्मेषु-कं. 1; कं. 2 / 11 च-जे. 1; जे. 3 / 12 जिज्ञासाया___ अ, ब, क; 13 जिज्ञासार्थं प्रमित्युक्तम्-अ; 14 जिज्ञासा अर्थ-अ, ब; 15 णाभिधाने -- कं. 1 /