________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली [16] 'धर्मोऽपि केवलो न निःश्रेयसं करोति यावदीश्वरेच्छया नानुगृह्यते / तेनेदमुक्तम्ईश्वरचोदनाभिव्यक्ताद्धादेवेति / चोद्यन्ते प्रेर्यन्ते स्वकार्येषु प्रवर्त्यन्तेऽनया भावा इति चोदना ईश्वरचोदना 'ईश्वरेच्छाविशेषः / अभिव्यक्तिः कार्यारम्भं प्रत्याभिमुख्यम् / ईश्वरचोदनयाभिव्यक्तादीश्वरचोदनाभिव्यक्ताद् ईश्वरेच्छाविशेषेण कार्यारम्भाभिमुखीकृताद्धादेव तन् निःश्रेयसं भवतीति वाक्ययोजना। तच्चेति चकारों 'द्रव्यादिसाधर्म्यज्ञानेन सह धर्मस्य निःश्रेयसहेतुत्वं समच्चिनोति / [टि०] [16] 'नोद्यन्त इति - एतच्चार्थकथनम् करणे ह्यनटि सति ङी: स्यात् / नोद्यन्तेऽस्या इति तु कृत्वा णिवेत्यासेत्यनः कार्यः / ईश्वरेच्छानां नित्यत्वाद् धर्मविशेषसन्निधमेव विशेषः / ईश्वरेच्छा विशेषेण इति-ईश्वरेच्छायाश्च कार्यकरणे नियमेनावस्थानमेवावान्तरव्यापार इति कारकत्वम् / [पं०] मोक्षाधिकारे इति - गुणपदार्थ इष्टप्रकरणे / ईश्वरेच्छाविशेष इति - ईश्वरस्येच्छा द्विधा-सिसृक्षा संजिहीर्षा च। प्रतीत्येति = बुद्धवा / भेदजिज्ञासार्थमिति - अत्र भेदज्ञानार्थमिति पाठांतरम् / . [कु०] न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः / श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते / / इत्यादि ज्ञानकर्मसमुच्चयप्रतिपादकागमविरोधः स्यादित्यलमतिविस्तरेण / ननु यदि “यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्म" इति सूत्रं (वै. सू. 1.1.2) यथाश्रुतमेव 'व्याचिख्यासितं तहि प्रत्येकसमुदायिभ्यामव्यापकतयाऽलक्षणमिति / मैवम्, अभिमतहेतुरतीन्द्रियविहितानुष्ठानजन्यः पुरुषगुणो धर्म इति हि लक्षणमभिमतं सूचितम् / अभ्युदयमिःश्रेयसयोर्भेदेनोपादानं त्वभिमतस्यावान्तरभेदप्रदर्शनायेति यत्किञ्चिदेनहायत्वभ्युदयो ज्ञानं तेन [त्वाभ्युदयेन] कार्येणानुमितो धर्मः ज्ञानं च निःश्रेयसेन कार्येणानुम यते इति सूत्रं धर्मेण प्रमाणप्रदर्शनपरमिति व्याचक्षते तेषां स्वर्गहेतौ स्वर्गे प्रमाणं न प्रदर्शितमिति न्यूनत्वमवसेये, न तु यदि देहेन्द्रियव्यतिरिक्तात्मसाक्षात्कारो निवर्तकधर्मसहितोऽपवर्गहेतुः तागमविरोधः, श्रूयते हीश्वरोपासनाया अपवर्गहेतुता। यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः / तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति / इति इमामाशङ्कां निराचिकीर्षुः सङ्गति करोति धर्मोऽपीति (कं. 7.25) / [16] 'इच्छाविशेष इति (कं. 8. 1) ईश्वरेच्छाया एकत्वेऽप्युपासनारूपसहकारिलाभेनोपाधिविशेषव्यपवेश इति विरोधः। 1 धर्मोऽपि केवलं तावन्न-कं. 1, धर्मोऽपि तावन्न-कं. 2 / 2 ईश्वरस्य चोदना ईश्वरचोदना-जे. 1; जे. 2 / 3 ईश्वरस्येच्छाविशेष:-जे.१; जे. 21 ईश्वरस्य-जे. 3 / 4 धर्मादेव निःश्रेयसं-कं.१; कं.२। 5 द्रव्यादिज्ञानेन -जे. 1; जे. 3, द्रव्यादिसाधादिज्ञानेन-कं. 1 / 6 चोद्यन्ते-मु. जे. 1, 3, 7 विशेषण अ, ब, क; 8 व्यादिष्यासित-हस्तलिखित पुस्तके-कं। 9 ईश्वरेच्छाविशेष:-कं.१।।