________________ 594 म्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् प्रशस्तपादभाष्यम् [215-216] कथम् ? अनित्यः शब्द इत्यनेनानिश्चितानित्यत्वमात्रविशिष्टः शब्दः कथ्यते / प्रयत्नानन्तरीयकत्वादित्यने नानित्यत्वसाधनधर्ममात्रमभिधीयते / इह यत् प्रयत्नानन्तरीयकं तदनित्यं दृष्टम् यथा घट' इत्यनेन साध्यसामान्येन 'साधनसामान्यस्यानुगममात्रमुच्यते / नित्यमप्रयत्नानन्तरीयकं दृष्टम् यथाकाशमित्यनेन 'साध्याभावेन साधनस्यासत्त्वं प्रवीते। तथा च प्रयत्नानन्तरीयकः 'शब्दो दृष्टो न च तथाकाशवरप्रयत्नानन्तरीयकः शब्द इत्यन्वयम्यतिरेकाभ्यां दृष्टसामर्थ्यस्य साधनसामान्यस्य शग्वेऽनुसन्धान गम्यते / तस्मादनित्यः शब्द इत्यनेनानित्य एव शब्द 'इति प्रतिपिपावयिषितार्थपरिसमाप्तिर्गम्यते। / न्यायकन्दली [215] 'तत्र को हेतुरित्यपेक्षायां प्रयत्नानन्तरीयकत्वात् पूर्वमसतः प्रयत्नानन्तरमुपलभ्यमानत्वाविति हेतुवचनेनानित्यत्वस्य साधनधर्ममात्रमभिधीयते / मात्रग्रहणेन पक्षधर्मताया अन्वयव्यतिरेकयोश्चानभिधानं दर्शयति / अवगतसाधनस्य कथमिदं साध्यं गमयतीति साधनसामर्थ्यापेक्षायामिह जगति यत् प्रयत्नानन्तरीयकं तदनित्यं दृष्टमित्युदाहरणेन साध्यसामान्येन साधनसामान्यस्यानगममात्रं करोति न तु स्वरूपान्तरमिति मात्रशब्दार्थः / नित्यमप्रयत्नानम्तरीयकमिति वैधर्म्यनिदर्शनेन साध्याभावे साधनाभावः प्रदश्यते - यत् प्रयत्नानन्तरीयकं तदनित्यमिति / वृष्टमेतत्, किं तु शब्दे तदस्ति नवेति जिज्ञासायां तथा च प्रयत्नानम्तरीयकः शब्द इति, यथा घटः प्रयत्नानन्तरीयकः, तथा [कु.] [215] ननु यदि प्रयत्नानंतरीयकत्वं प्रयत्नकार्य ह्यन्यथासिमित्यत आह पूर्वमसत इति (कं. 253) / म तु स्वरूपान्तर इति (कं. 254) पक्षधर्मतात्मकमित्यर्थः / शब्दे धर्मिण्यनुसन्धानमिति (कं. 254) साकल्येन सम्बन्ध इत्पर्षः / अतोऽवगम्यत इति (कं. 254) अनेन पौनरुक्तयम् / प्रत्याम्नायस्य संगतिमाह यथा ताववि (यवि)ति (कं. 254) उपजीम्येन बलवता प्रमाणेन बाधादित्यर्थः / कदाचित्प्रयत्नानंतरोयकः शब्दोऽनित्यो भवेदित्यवश्यं शंकया भाग्यम् / म्यायेनेति नियामकमवश्यतामिति न्यायेनेति शेषः / नन तस्मादनित्यः शब्द इति प्रत्याम्नायवर्तिना वच्छन्देन यपि प्रकृतो हेतुः परामृश्यते न कश्चिदिति [आ]शयः स्यात्तस्य प्रयत्लान्तरीयकत्वादित्यनेन हेतुवचनेनैव दिष्टत्वादित्यत नाइ यस्मादिति (कं. 254) तदापि साध्यविपर्ययग्राहक प्रमाणं वादिप्रतिवादिनोश्चेतसि विपरिवर्तत एव / इतरया वारिप्रवृत्त्यनुपपत्तेः न च तदेव तस्मादित्यनेन पराएं शक्यते विरोधात्तस्मात्तनिषेधो योग्यतया परामर्शनीय 1 सापयंबंधयंमात्रम् -दे। 2 सामान्यस्य-दे। 3 साध्याभावे-दे। 4 शब्दो न च तथाप्रयत्नानन्तरीयक: -दे। 5 साधनस्य-दे। 6 इत्यपि प्रतिपादयिष्यता-दे। 7 तदनकुतो - जे.१। 8 अनित्यत्वसाधन -कं. 1; कं. 2 / 9 मात्रग्रहणेन हेतोः - जे. 1 /