________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 593 न्यायकन्दली नापि तच्छक्त्यनुरोधाद्वाक्यकल्पना युक्ता, प्रतिपत्तणां विचित्र'शक्तिकत्त्वात् / तस्मात् परं बोधयता यावता हेतोः साधकत्वं वस्तुवृत्त्योपपद्यते तावानर्थो वचनेन प्रतिपादनीयः, न प्रतिपत्तविशेषानुरोधेन वर्तितव्यम् / यथोक्तम् - वस्तु प्रत्यभिधातव्यं सिद्धार्थो न 'नरान प्रति / को हि विप्रतिप'नास्ति'बुद्धीरनुधावति // उपसंहरति - तस्मादत्रैवार्थपरिसमाप्तिरिति / यस्मानिगमने सति हेतोः समग्रं सामर्थ्य प्रतीयते तस्मादत्रैव निगमने अर्थस्य साध्यस्य परिसमाप्तिः प्रतीतिपर्यवसानम् / .. यदुवं योजना, यस्मानिगमनमन्तरेण विपरीतप्रमाणाभावो 'नावगम्यते, तस्मावेतस्मिन्नेवार्थस्य सम्यग्हेतु सामर्थ्यस्य परिसमाप्तिः पर्यवसानमिति / ... प्रत्येकमुक्तमेवावयवानां 'रूपमेकत्र संहृत्य प्रश्नपूर्वकं कथयति- कथमित्यादिना। कि शब्दो नित्यः किं वा अनित्य इत्यन्यतरधर्मजिज्ञासायां प्रतिज्ञावचनेनानिश्चितेनानित्यत्वमात्रेण विशिष्टः शब्दः कथ्यते "अनित्यः शब्दः' इति / [कु.] नन्वबाधितविषयत्वासत्प्रतिपक्षत्वयोरनुमितिसामग्र्यन्तर्भावः कुत इत्यत आह उभयमपीति (?) / सिद्धान्तभाष्यं योजयति तत्रेति (कं. 253) / नन्वबाधितविषयत्वासत्प्रतिपक्षत्वे वदत् (?) सपक्षे सत्वादेरपि कथं गम्यमानत्वमित्यत .आह प्रतिज्ञान्तरमिति (कं. 253) समभिव्याहारान्यथानुपपत्तेरित्यर्थः / विदुषामिति (कं. 253) अनेनाविदुषां चेत् बाधितविषयत्वादिकमपि वचनो (नमु) पनेयमिति सूचयति / ननु यदि न विद्वान् यं चाद्यवाक्यप्रयोगस्य विषयः तस्य विद्वत्वादेव, अविद्वानपि पदपदार्थसंगतिग्रहण (णा? ) भावान्न विषयस्तहि कोऽस्य विषय इत्यत आह - एतदुक्तं भवतीति (कं. 253) न च प्रतिपाद्यस्येति (कं. 253) अनेन गृहीतसंगतिक एव लिङ्गसामर्थ्याज्ञानमात्रेण यं चाद्यवाक्यप्रयोगविषय इति सूचयति / ननु यथा कथंचिदिगितादिना परचित्तवृत्ते (र) नुनयो भविष्यतीत्यत आह नापीति . (कं. 253) प्रतिपत्तणामन्यथासिद्धेगितत्वादित्यर्थः / वस्तुवृत्त्येति (कं. 253) प्रतिपाद्यमात्रसाधारणेनेति शेषः / - ननरान्प्रतीति (कं. 253) [प्रति]पत्तिविशेषापेक्षया वाक्यस्य न्यूनाधिकभावो न कर्तव्य इति भावः / - प्रत्येकमुक्तमेवेति (कं. 253) शिष्यबुद्धिवेशद्यायेति शेषः / अन्यतरधर्मजिज्ञासायामिति (कं. 253) नियतहेतोरभावादनियतकोटिकायां जिज्ञासायामित्यर्थः / शक्तिमत्त्वात-कं. 1; कं. 2 / 2 परान-कं. 1, कं. 2 / 3 पन्नाया-कं 1, कं. 2, कं. 3 / 4 तबुद्धे-कं. 1, कं. 2; तबुद्धीरनुधावति इति - जे. 1 / 5 न गम्यते - जे. 1, जे. 2, जे. 3 / 6 अस्मिन्नेवार्थस्य - जे. 1 / 7 अथ - जे. 1 / 8 अनित्य इति - कं. 1, कं. 2 / 9 परान्प्रति - कं. 1 /