________________ टिप्पणपञ्जिकाकुसुमौद्गमादिटीकात्रयोपैतम् - 589 न्यायकन्दली निश्चयार्थमुपनयो वाच्यः / असिद्धस्य भ्रमादुपनयोऽपि दृश्यते कथं तस्मादपि पक्षधर्मतासिद्धिरिति चेत् ? असिद्धाविनाभावस्यापि भ्रान्त्या व्याप्तिवचनं दृश्यते कथं तस्मादन्वयसिद्धिः ? उदाहरणे व्याप्तिग्राहकप्रमाणानुसारेणान्वयनिश्चयो न वाङ्मात्रेण, तस्य सर्वत्राविशेषादिति चेत् ? उपनयेऽपि पक्षधर्मता'ग्राहिप्रमाणानुसारादेव तद्धर्मतानिश्चयो न वचन'मात्रात् / हेत्वभिधानान्यथानुपपत्त्यैव पक्षधर्मताग्राहिप्रमाणानुसारो भवतीति चेत् ? तदन्यथानुपपत्त्यैव व्याप्तिग्राहकप्रमाणानुसारो भविष्यति / हेतुवचनस्यान्यार्थत्वान्न तदुपनयनसामर्थ्यमस्तीति तदुपस्थापनमदाहरणेन क्रियत इति चेत् ? इहापि संव 'रोतिरनुगम्यताम्, अलमन्यथा सम्भावितेन / अस्तु त पनयः, व्यर्थ हेतुवचनम् ? न, असति हेतुवचने साधनस्वरूपानवबोधात्, तत्सामर्थ्य जिज्ञासाया अनुपपत्तौ उदाहरणादिवचनानां प्रवृत्त्यभावात् / तथा च न्यायभाष्यम् - 'असति हेतौ कस्य साधनभावः प्रदर्श्यते' इति / [पं०] असिद्धस्य (कं. 250.12) त्यादि / तस्मादिति (कं. 250.13) दृष्टान्तात् / परः उबाहरणे (कं. 250.14) इत्यादि / न वाङ्मात्रेणेति (कं. 250.15) कोऽर्थः, तस्माद् व्याप्तिदर्शनीयेत्यर्थः / परः हेत्वित्यादि (कं. 250.16) / अत्र किमुपनयेनेति पराशयः / सूरिवाक्यं तदन्यथेत्यादि (कं. 250.17) / अत्र किं व्याप्तोऽस्तीति सूरेराशयः / परः हेत्वि (कं. 250.18) त्यादि। अन्यार्थत्वादिति (कं. 250.18) साध्यसाधनार्थत्वात् / तदुपनयनसामर्थ्यमिति (कं. 250.18) प्रमाणोपनयनसामर्थ्यम् / परः अस्तु (कं. 250.20) इत्यादि / सूरिने (कं. २५०.२१)त्यादि / तत्सामर्थ्यजिज्ञासाया इति (कं. 250.21) साधनसामर्थ्यजिज्ञासायाः / [कु०] ननु भ्रान्त्यापि वचनसंभवे उपनयाङ्गीकारेऽपि विनाभिमतसिद्धिरिति शंकते असिद्धस्येति (कं. 250) प्रतिबंध्या मोचनशंकान्यायसामान्यात्प्रतिपादनं च सुगमम् / शंकते हेत्वभिधानेति (कं. 250) प्रतिबन्धीमाह तदन्यथेति (कं. 250) सन्मोचनमाशंकते हेतुवचनस्येति (कं. 250) / अत्र प्रमाणद्वयविरोधाभावादपत्तिर्नावतरतीति भावः। समः समाधिरित्याह इहापीति (कं. 250) / शंकते अस्तु तीति (कं. 250) लिंगस्य पक्षधर्मतां प्रतिपादयनुपर्नयो नांतरायकतया तत्स्वरूप [म]पि प्रतिपादयत्येवेति भावः / परिहरति नेति (कं. 250) स्वरूपं ज्ञात्वैव कथमस्य सामर्थ्य मिति जिज्ञासत इति भावः / निश्चयो न भूतः वादिनः आप्तत्वसंदेहादिति भावः / 2 ग्राहक-कं.१, कं.२। 3 मात्रत्वात-कं.१; कं. 2 / 4 नीति-जे. 3 / 1 वचनमात्रेण-कं. 1; कं.२। 5 बचनमात्रेण-कं.१।