________________ 590 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [213-214] अनुमेयत्वेनोद्दिष्टे चानिश्चिते च 'परेषां निश्चयापादनाथ प्रतिज्ञायाः 'पुनर्वचनं प्रत्याम्नायः / 'प्रतिपाद्यत्वेनोद्दिष्टे चानिश्चिते च परेषां 'हेत्वादिभिरवयवैराहितशक्तीनां परिसमाप्तेन वाक्येन निश्चयापादनाथ प्रतिज्ञायाः पुनर्वचनं प्रत्याम्नायः, तस्माद् द्रव्यमेवेति / न्यायकन्दली [213] 'अनुसन्धानस्याकारं दर्शयति तथा च वायुः क्रियावानिति / वैधानुसन्धानमाहअनुमेयाभावेऽन्यतरस्यासत्त्वमुपलभ्याभिधत्ते न च तथा वायुनिष्क्रिय इति / / प्रत्याम्नायं व्याचष्टे - 'अनुमेयत्वेनोद्दिष्टे चानिश्चिते च परेषां पुनिश्चयापादनार्थ प्रतिज्ञायाः पुनर्वचनं प्रत्याम्नाय इति / प्रतिज्ञावचनेन पक्षे अनुमेयत्वेन प्रतिपाद्यत्वेनोद्दिष्टे साध्यधर्मेऽनिश्चिते तस्यैव साध्यमिणि 'प्रत्याम्नायं प्रत्यावृत्त्याभिधानं येन वचनेन क्रियते तत्प्रत्याम्नायः। अभिहितस्य पुनरभिधानं किमर्थमत आह-परेषां निश्चयापादनार्थमिति / प्रथमं साध्यमभिहितं न तु तनिश्चितम्, प्रतिज्ञामात्रेण साध्यसिद्धरभावात् / तस्योपर्शिते हेतौ, कथिते चहेतोः सामर्थ्य, निश्चयः प्रत्याम्नायेन क्रियत [टि.] (॥अथ प्रत्याम्नायनिरूपणम् / / ) [213 to 215] असति प्रत्याम्नाय ' इति :- एकमर्थं ग्रन्थकृन्मतेन समस्तरूपोपपन्नं लिङ्गमन्यमते तु साध्यमिति / 'वस्तुं प्रति इति पदार्थ लक्ष्यीकृत्येत्यर्थः / पO1213] पा3 2131 "परेषां पुनरित्यत्र गद्ये (कं. 252.) पुनर्वचनमिति योगः। तस्यैवेति (कं. 252.6) साध्यधर्मस्य। . प्रत्याम्नायेनेति (कं. 252.10) निगमनेन / तेषामिति (कं. 252.12) परेषाम् / / ___ एकममिति (252.17) एकमर्थं ग्रन्थकारमते समस्तरूपोपपन्नं लिङ्गम् / यत्पर: "शब्दः सशब्दार्थ इत्यादि / वादिमते तु साध्यम् एतस्मिन्निति (कं. 252.18) प्रत्याम्नाये / शक्नुवन्तीति (कं. 252.18) अत्र अवयवाः प्रतिपादयितुमिति योगः। [कु०] [213] स्वतंत्रत्वादिति (कं. 252) आकांक्षासन्निधिमत्वेपि योग्यतया ज्ञानाभावेनान्वयज्ञाभावादिति भावः / सति स्विति (कं. 252) सिद्धो सत्यारंभो नियमायेति न्यायात् / साध्यविपर्ययजिज्ञासाविच्छेदे सति योग्यतानु 1 परेषां पुन-दे। 2 वचनं-दे। 3 अनुमेये प्रतिपाद्यत्वे-व्यो. (616) / 4 हेत्वादिभिराहित-व्यो. (616) / 5 अनुसन्धानस्योदाहरणमाह - तथा चेति / वैधानुसन्धानं दर्शयति - अनुमेयाभावे चेति - कं. 1; कं. 2 / 6 अनुमेयत्वेनोद्दिष्टे इति-कं. 1; कं. 2 / 7 प्रत्याम्नाय:-कं. 1; कं. 2 / 8 हेतुसामर्थ्य निश्चवः-जे. 1, जे. 2 / 9 वस्तुपदार्थ-अ, ब, क / 10 निर्दिष्टं गद्य-कं. 1 पुस्तके नोपलभ्यते / 11 प्रतीकमिदं कं. 1 पुस्तके नास्ति।