________________ 588 न्यायकन्दलीसंवलितप्रशस्तपादमाख्यम् न्यायकन्दली अयमत्राभिसन्धिः-परार्थः शब्दो यथा यथा परस्य 'जिज्ञासोदयते तथा तथा प्रयुज्यते, प्रत्येतुश्च साध्येऽभिहिते साधने भवत्याकाङक्षा - कुत इदं 'सिद्धयति इति / न तु साधनस्य 'सामर्थ्य, स्वरूपावगतिपूर्वकत्वात् सामर्थ्य जिज्ञासायाः। साधने चाकाङक्षिते प्रयुज्यमानं हेतुवचनं हेतुस्वरूपमात्रं कथयति, न तस्य पक्षधर्मताम्, एकस्य शब्दस्यो'भयार्थवाचकत्वाभावात् / विज्ञाते हेतौ कथमस्य हेतुत्वमिति सामर्थ्य जिज्ञासायां साध्यप्रतीतेरविनाभावप्रतीतिनान्तरीयकत्वाद्वयाप्तिवचनेनाविनाभावे कथिते सत्यवधारितसामर्थ्यस्य हेतोः पक्षे पश्चात् सम्भवो जिज्ञास्यत इत्युदाहरणानन्तरं पक्षधर्मतावगमार्थमुपगन्तव्य उपनयः, हेतुत्वाभिधानसामर्थ्यादेव पक्षधर्मत्वं प्रतीयते, व्यधिकरणस्यासाधकत्वादिति चेत् ? तदभिधानसामर्थ्यायाप्तिरपि लप्स्यते, अनन्वितस्य हेतुत्वाभावादित्युदाहरणमपि न वाच्यम् / असाधारणस्यापि भ्रान्त्या हेतुत्वाभिधानोपपत्तेन तस्मादेकान्तेनान्वयप्रतीतिरस्तीत्युदाहरणेन व्याप्तिरुपदर्यत इति चेद् ? धर्मिण्यविद्यमानस्यापि भ्रमेण हेतुत्वाभिधानोपलम्भान्न ततः पक्षधर्मतासिद्धिरस्तोत्युदाहरणस्थस्य लिङ्गस्य पक्षेऽस्तित्व [पं०] न तु साधनस्य सामर्थ्य (कं. 249.26) इत्यत्र भवत्याकाङ्क्षति (कं. 249.26) सम्बन्धनीयम् / एकस्येति . (कं. 250.2) हेतोः। उभयार्थवाचकत्वाभावादिति (कं. 250.3) स्वरूपमात्रं पक्षधर्मता चेत्युभयम् / उपगन्तव्य' इति (कं. 250.6) पक्षः कार्यः / बौद्धः प्राह हेतुत्वेत्यादि (कं. 250.6) / व्यधिकरणस्यासाधकत्वादिति (कं. 250.7) अपक्षधर्मत्वे वैयधिकरण्यं, काकस्य काष्ण्य, धवलः प्रासाद इतिवत् / तदभिधानसामर्थ्यादिति (कं. 250.7) हेतुत्वाभिधानसामर्थ्यात् / अनन्वितस्येति (कं. 250.8) अकृतव्याप्तिकस्य / परः प्राह असाधारणस्यापी (कं. २५०.९)त्यादि। तस्मादिति (कं. 250.9) हेतोः। धर्मिण्यविद्यमानस्यापीति (कं. 250.10) शब्ने चाक्षुषवत् / परः [कु०] ननु यदि साधनमभिहितम्, किमतः परमन्वेषणीयमित्याशंक्य भाष्यशेषमवतारयति लिंगस्येति (कं. 249) सेति (कं. 249) शक्तिः परामृश्यते / ननु लिंगलक्षणपर्यालोचनयाऽपदेशेनैवान्वयव्यतिरेकपदाधर्मतया लक्ष्यंत इत्यत आह अयमत्रेति (कं. 249) लक्षणजिज्ञासाऽपि लक्ष्यावगमाव्याप्याश्रया नोत्पद्यत इति भावः / ननु तेनैवापदेशेन जिज्ञासामनुस्मृत्य व्यापारान्तरेण सामर्थ्य प्रतिपादनको विरोध इत्याह एकस्येति (कं. 250) अन्यायश्चानेकार्थ इति न्यायादिति भावः / नन्वेवं सति शक्तिप्रतिपादिकत्वसाम्या उदाहरणोपनययोः क्रमनियमः किंकृत इत्यत आह विज्ञात इति (कं 250) साधनस्य साध्यप्रयोजकत्वे निश्चिते पश्चाद्धर्मविशेषसम्बन्धजिज्ञासा भवतीति भावः / हेतुत्वेऽभिधाना वेति इतरथा पञ्चमी न स्यादिति भावः / सामान्येन परिहर्तुं प्रतिबंधीमाह तदभिधानेति (कं 250) / प्रतिबन्धीमोचनमाशंकते असाधारणस्येति (कं. 250) समः समाधीरित्याह न धर्मी अस्तीति (?) / .. 1 जिज्ञासोपजायते - जे. 3 / 4 भयथा - जे. 2 / 2 सिद्धयति - कं. 1; कं. 2 / 3 सामर्थ्यम् - कं. 1; कं. 2 /