________________ 586 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली इत्याश्रयासिद्धः / परमार्थतस्तु तम एव नास्ति, किमाश्रया साध्यसाधनयोावृत्तिः स्यात् / घटवदित्यव्यावृत्तः। यद्यपि घटे साध्यसाधनयोरस्ति व्यावृत्तिः, तथापि यदनित्यं तन्मर्तमित्येवं न वदति, न च तथानभिधाने साध्यसाधनयोर्ध्यावृत्तिप्रतिपत्तिवि'प्रतिपन्नस्य भवति, अतोऽयमव्यावृत्तः। यन्निष्क्रियं तदद्रव्यमिति विपरीतव्यावृत्तः / यथा साध्यं व्यापकं साधनं व्याप्यम्, तथा साध्याभावो व्याप्यः साधनाभावश्च व्यापकः / यथोक्तम् - नियम्यत्वनियन्तृत्वे भावयोर्यादृशे मते / विपरीते प्रतीयेते ते एव तदभावयोः // इति / तत्र द्रव्यं घायः क्रियावत्त्वादित्यत्र विपर्ययव्याप्तिप्रदर्शनार्थ यदद्रव्यं तदक्रियमिति वाच्यम्, 'अयं तु न तथा ब्रूते, किन्त्वेवमाह-यन्निष्क्रियं तदद्रव्यमिति / एवं च न व्याप्तिरस्ति, आकाशस्य क्रियारहितत्वेऽपि द्रव्यत्वात्, तस्माद् द्विपरीतव्यावृत्तोऽयं वैधर्म्यनिदर्शनाभासः। लिङ्गं चानुमेयं चोभयं च लिङ्गानुमेयोभयानि तान्यव्यावृत्तानि येषां ते तथोक्ताः / आश्रयोऽसिद्धो यस्य स आश्रयासिद्धः, लिङ्गानुमेयोभयाव्यावृत्तश्चाश्रयासिद्धश्च अव्यावृत्तश्च विपरीतव्यावृत्तश्चेति व्याख्या। [पं०] साध्यं व्यापकमित्याहुः, साधनं व्याप्यमुच्यते। प्रयोगेन्वयवत्येवं व्यतिरेके विपर्यय / / इति // व्याप्यव्यापकत्वे / [तद] भावयोरिति (कं. 248.26) साध्या[भाव] साधनाभावयोः / विपर्ययव्याप्तिप्रदर्शनार्थमिति (कं. 248.27) व्यतिरेकव्याप्तिप्रदर्शनार्थम् / विपरीतव्यावृत्त इति (कं. 249.3) विपरीतव्यतिरेकी। [कु०] [211] ननु प्रकरणव्युत्पन्नस्य निदर्शनस्य वाक्यात्मकस्य साध्यसाधनाद्यकरणत्वं नोपपद्यते निदर्शन इति (कं. 249) / अनुसंधानशब्दस्याथं व्याचष्टे दृष्टस्य इति (कं. 249) - उदाहरणे साध्ये न संघटितसाधनस्य पश्चात्पक्षे संघटनमनुसंधानमित्यर्थः / 1 अप्रतिपन्नस्य-जे. 1, जे. 2 / 2 अयं न तथा -जे. 1, जे. 2; अयं च न तथा - जे. 3 / /